अवभृथमुपतिष्ठन्ते देवीराप एष वो गर्भः इति १
विचृतो वरुणस्य पाशः इति
यजमानो मेखलां विचृतति । इमं वि ष्यामि वरुणस्य पाशम् इति
योक्त्रपाशं पत्नी २
अत्रैव सर्वाणि
दीक्षितव्यञ्जनान्युपप्लावयतः
३
अहतौ वसाना-ववभृथादुदेतः ४
सोमोपनहतं यजमानः परिधत्ते । सोमपरिश्रयणं
पत्नी ५
ते उदवसानीयायामध्वर्यवे दत्तः ६
तत उन्नेतारं सम्प्रेष्यति
उन्नेतर्वसीयो न उन्नयामि ।
उदुत्ते मधुमत्तमा गिरः स्तोमास ईरते ।
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ।
कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ॥
इति ७
उन्नेता होतृप्रथमान् यजमानप्रथमान् वोन्नयति
उदेत प्रजामुत वर्चो दधाना युष्मान् राय उत यज्ञा असृक्षत ।
गायत्रं छन्दोऽनुसँ रभध्वमथास्या अथ सुरभयो गृहेषु ॥
इति ८
उद्गाहमाना उदकान्तं प्रत्यस्यन्ति प्रतियुतो वरुणस्य पाशः इति ९
समिधः कृत्वाप्रतीक्षमायन्त्युन्नेतारं पुरस्कृत्य महीयां जपन्तः
अपाम सोमममृता अभूम इत्येतां
यान्यपामित्यान्यप्रतीत्तान्यस्मि यमस्य बलिना चरामि ।
इहैव सन्तः प्रति तद्यातयामो जीवा जीवेभ्यो निहराम एनत् ॥
अनृणा अस्मिन्ननृणाः परस्मिँ स्तृतीये लोके अनृणाः स्याम ।
ये देवयाना उत पितृयाणाः सर्वान् पथो अनृणा आक्षीयेम ॥
इति १०
एधोऽस्येधिषीमहि इत्याहवनीये समिध आधायोपतिष्ठन्ते अपो अन्वचारिषम्
इति ११
एवं पत्नी गार्हपत्येऽभ्याधायोपतिष्ठते १२
२३