२२

तृणं प्रास्य अग्नेरनीकमप आ विवेश इति स्रुच्यमाघारमाघारयति १
यदि वा पुरा तृणं भवति तस्मिन्नेव जुहोति २
बर्हिष्येव सर्वा आहुतीर्जुहोति ३
समानमा प्रवरात् ४
आश्राव्याह तिष्ठ होतः इति । एतावान् प्रवरः ५
नार्षेयं वृणीते न होतारम् ६
अपबर्हिषश्चतुरः प्रयाजान् यजति ७ आज्य-भागाभ्यां प्रचर्य पुरोडाशस्यादाय वरुणं यजति ८
सर्वं पुरोडाशमवदा-याग्नीवरुणौ स्विष्टकृतौ यजति ९
ततः सम्प्रेष्यति अग्नीदपः सकृत् सम्मृड्ढि इति १०
अप एवाग्नीध्रः सकृत् सम्मार्ष्टि । आपो वाजजितो वाजं वः सस्रुषीर्वाजं जिग्युषीर्वाजिनीर्वाजजितो वाजजित्यायै सम्मार्ज्म्यपो अन्नादीरन्नाद्याय इत्यपः सम्मार्ष्टि ११
अपबर्हिषौ द्वावनूयाजौ यजति १२
देवौ यज इति पूर्वमनूयाजँ सम्प्रेष्यति । यज इत्युत्तरम् १३
ऋजीषस्य स्रुचं पूरयित्वाप्सूपमारयति समुद्रे ते हृदयमप्स्वन्तः इति १४
यत्रयत्र बिन्दुरिवोच्चरेत्तद्भक्षयेद् अप्सु धौतस्य सोम देव ते इति १५
उपस्पृश्यमेवेत्येकेषाम् १६
अवभृथं सम्प्रकिरति अवृभृथ निचङ्कुण इति १७
अभिप्रगाह्यानुपमक्षन्तौ सहशिरसौ स्नातो यजमानः पत्नी च १८
अन्योन्यस्य च पृष्ठे प्रधावेते सुमित्रा न आप ओषधयः सन्तु इति १९
२२