यत्ते ग्राव्णा चिच्छिदुः सोम राजन् इत्येतेनानुवाकेन १
तिसृभिरभिजुहोती-त्येकेषाम् ।
पञ्चभिरित्येकेषाम् । सप्तभिरित्येकेषाम् २
चात्वाले
कृष्णाजिनं प्रास्यति अव ते हेडो वरुण नमोभिः इति ३
अपि वा
सहावभृथेऽवप्लावयेत् ४
ततः सम्प्रेष्यति प्रस्तोतः सामानि गाय इति ५
सह पत्न्या त्रिः साम्नो निधनमुपयन्ति । वेद्यन्ते प्रथमं मध्यदेशे
द्वितीयमुदकान्ते तृतीयम् ६
उरुँ हि राजा वरुणश्चकार इति
वेद्या अभिप्रयान्ति ७
प्राञ्चोऽवभृथाः स्थावरा अभ्युपयन्त्युदञ्चो वा
। प्राञ्चोदञ्च इत्येकेषाम् । दक्षिणा इत्येकेषाम् । प्रत्यञ्च
इत्येकेषाम् ८
या दिशं यन्ति सा प्राची दिक् ९
शतं ते
राजन् भिषजः सहस्रम् इत्यपः पराख्याय वदन्ति १०
अभिष्ठितो वरुणस्य पाशः
इत्युद-कान्तमभितिष्ठन्ते ११
अत्रैके हृदयशूलस्योद्वासनँ समामनन्ति १२
अभिप्रगाह्य तिष्ठन्तोऽवभृथेन चरन्ति १३
स्रुवाघारमाघार्य सम्प्रेष्यति
अग्नीदपस्त्रिः सम्मृड्ढि इति १४
अप एवाग्नीध्रस्त्रिः सम्मार्ष्टि ।
आपो वाजजितो वाजं वा सरि-ष्यन्तीर्वाजं जेष्यन्तीर्वाजिनीर्वाजजितो
वाजजित्यायै सम्मार्ज्म्यपो अन्ना-दीरन्नाद्याय इत्यपः सम्मार्ष्टि
१५
२१