२०

अवभृथस्य तन्त्रं प्रक्रमयति १
वेदं कृत्वाग्नीन् परिस्तीर्य हस्ताववनिज्य पात्राणि प्रयुज्योलपराजी ँस्तीर्त्वा पवित्रे कृत्वा सम्प्रेष्यति यजमान वाचं यच्छ इति २
वाग्यतः पात्राणि सम्मृशति ३
वारुणमेककपालं निर्वपति ४
यजुरुत्पूताभिरद्भिः पुरोडाशँ श्रपयति ५
स्तीर्ण एव बर्हिषि पिष्टलेपं निनयति ६
स्फ्यँ स्तब्ध्वा सम्प्रेष्यति प्रोक्षणीरासादय स्रुवं च स्रुचश्च सम्मृड्ढ्या-ज्येनोदेहि इति ७
समानमाज्यानां ग्रहणात् ८
एतस्यामेव वेद्यामाज्यानि गृह्णाति सर्वाणि चतुर्गृहीतानि ९ पुरोडाशमुद्वास्याज्येनाहवनीये जुहोति आयुर्दा अग्ने हविषो जुषाणः इति १०
हुत्वाददतेऽवभृथँ स्फ्यँ सस्रुवा-माज्यस्थालीं वेदं पुरोडाशमाज्यान्यृजीषमधिषवणफलके खरपाँ सून् यत्किं-चित् सोमलिप्तं भवत्यन्यत्र चतसृभ्यः स्थालीभ्यः सोमगृहीताभ्यः ११
औदुम्बरीं यजमान उत्खिदति

उपसृजन् धरुणं मात्रे मातरं धरुणो धयन् ।

रायस्पोषमिषमूर्जमस्मासु दीधरत् ॥

इति १२
दध्नर्जीषमभिजुहोति १३
२०