अविशिष्टा उत्तरवेद्यां निवपन्ति आपूर्या स्था मा पूरयत इति १
त्री ँ!
स्त्री-ञ्छकलानग्नौ प्रास्यन्ति देवकृतस्यैनसोऽवयजनमसि
इत्येतैर्मन्त्रैः २
एक-धनपरिशेषेषु हरिणी दूर्वा
अवधाय सम्प्लोम्नाय तीव्रीकृत्य यथाचमसं व्यानीयापरेण चात्वालं
प्राञ्चोऽवजिघ्रन्ति अप्सु धौतस्य सोम देव ते इति ३
अवशिष्टा अन्तर्वेदि निनयति चात्वाल इत्येके
समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत ।
अरिष्टा अस्माकं वीरा उत्ते भवन्तु मा परासेचि नः स्वम् ॥
इति ४
निनीता अनुमन्त्रयते
अछायं वो मरुतः श्लोक एत्वछा विष्णुं निषिक्तपामवोभिः ।
उत प्रजायै तृणते वयोधा यूयं पात स्वस्तिभिः सदा नः ॥
इति ५
आग्नीध्रीयं प्रविश्य दधिद्र प्सान् भक्षयन्ति दधिक्राव्णो अकरिषम्
इत्येतया ६
ततः सख्यानि विसृजन्ते ये तानूनप्त्रँ समवमृशन्ति
उभा कवी युवाना सत्या ता धर्मणस्पती ।
सत्यस्य धर्मणस्पते वि सख्यानि सृजामहे ॥
इति ७
ततः पत्नीः संयाजयन्ति ८
समानमा समिष्टयजुषः ९
जुह्वां नवगृहीतमाज्यं
गृहीत्वा नव समिष्टयजूँ षि जुहोति । धाता रातिः सवितेदं जुषन्ताम्
इत्येतस्यानुवाकस्य षडृग्मियाणि त्रीणि यजूँ षि ।
समानत्र जुहोति १०
सन्ततं जुहोतीति विज्ञायते ११
विष्णुक्रमाणाँ स्थाने विष्ण्वतिक्रमान् जपति
अग्निना देवेन पृतना जयामि इत्येतान् १२
इदं तृतीयँ सवनं कवीनाम्
इत्याहुति ँहुत्वा सम्प्रेष्यति प्रशास्तः प्रसुहि इति १३
सर्पत
इत्याह प्रशास्ता १४
सन्तिष्ठते तृतीयसवनम् १५
१९