तत्र चत्वारि स्तोत्राणि चत्वारि शस्त्राण्याश्विनानि च
सयाज्यान्याम्नातानि भवन्ति १
तेषाँ
सन्धिचमसैरेव कल्पो व्याख्यातः २
एतावन्नाना । होतृ-चमसमुख्यः प्रथमश्चमसगणो
मैत्रावरुणचमसमुख्यो द्वितीयो ब्राह्मणाछँ
सि-चमसमुख्यस्तृतीयोऽछावाकचमसमुख्यश्चतुर्थः
३
एतेन शस्त्रयाज्यानामा-नुपूर्व्यं व्याख्यातम् ४
उक्थं वाचीन्द्रा य
इत्याह तृतीयसवनं प्रतिगीर्य ५
अतिच्छन्दसोऽश्विपीतस्य इति
भक्षमन्त्रं नमति ६
ततः सम्प्रेष्यति अग्नीदौ-पयजानङ्गारानाहर
इति ७
समानमा परिधीनां प्रहरणात् ८
प्रहृत्य परि-धीनुन्नेता हारियोजनं
गृह्णाति ९
द्रो णकलशेनाग्रयणं ग्रहीष्यन् सम्प्रेष्यति इन्द्रा य हरिवते
धानासोमानामनुब्रूहि १०
गृह्णाति उपयामगृहीतोऽसि हरिरसि हारियोजनः इति ११
बह्वीभिर्धानाभिः श्रीत्वात्याक्रम्याश्राव्याह इन्द्रा य हरिवते
धानासोमान् प्रस्थितान् प्रेष्य इति १२
वषट्कृते
शीर्षन्नधिनिधाय विक्रम्य जुहोति हरी स्थ हर्योर्धानाः सहसोमा
इन्द्रा य स्वाहा इति १३
हुतं यज-मानोऽनुमन्त्रयते यन्म आत्मनो
मिन्दाभूत् ॥ पुनरग्निः इति द्वाभ्याम् १४
अथैनँ सर्व
ऋत्विज उन्नेतर्युपहवमिष्ट्वासम्भिन्दन्तो धाना निम्नानि
कुर्वन्तश्चिश्चिषाकारं भक्षयन्ति
इष्टयजुषस्ते देव सोम इति १५
१८