१७

एवंविहिता अपरे त्रयश्चमसगणाः । मैत्रावरुणचमसमुख्यो द्वितीयश्चमसगणो ब्राह्मणाछँ सिचमसमुख्यस्तृतीयोऽछावाकचमसमुख्यश्चतुर्थः १
एतेन शस्त्र-याज्यानामानुपूर्व्यं व्याख्यातम् २
इति प्रथमो रात्रिपर्यायः ३ एवंविहिता-वपरौ द्वौ भवतः ४
होतृचमसमुख्यान् सन्धिचमसानुन्नयति ५ त्रिवृत्स्तोत्रं भवति ६
आश्विनँ शस्त्रं परःसहस्रम् ७
उदित आदित्ये परिदधातीति विज्ञायते ८
आश्विनं द्विकपालं निर्वपति ९ यजुरुत्पूताभिरद्भिः पुरोडाशँ श्रपयति १०
स्तीर्ण एव बर्हिषि पिष्टलेपं निनयति ११
शस्त्रं प्रतिगीर्य पुरोडाशमुद्वास्य सम्प्रेष्यति अश्विभ्यां तिरोअह्नियानाँ सोमानामनुब्रूहि इति १२
आदत्ते ग्रहमध्वर्युः । आददते चमसाँ श्चमसाध्वर्यवः । आदत्ते पुरोडाशं प्रतिप्रस्थाता १३
अत्याक्रम्याश्राव्याह अश्विभ्यां तिरोअह्नियान् सोमान् प्रस्थितान् प्रेष्य इति १४ वषट्कृते सह सोमैः प्रतिप्रस्थाता पुरोडाशँ सर्वहुतं जुहोति १५ पङ्क्तिछन्दसोऽश्विपीतस्य इति भक्षमन्त्रं नमति १६
इति वै खलु यद्यतिरात्रः १७
अथ यद्यप्तोर्यामः सन्धिचमसानुन्नयँ श्चतुर्भ्यश्चमसगणेभ्यो राजानमतिरेचयति १८
१७