समयाविषिते सूर्ये हिरण्येन षोडशिनः स्तोत्रमुपाकरोति १
पुरस्तादरुण-पिशङ्गमश्वं धारयन्ति
श्यामं वा २
हिरण्येन सम्प्रदायँ स्तुवते ३
हरिवत्स्तोत्रँ
हरिवच्छस्त्रँ हरिवती याज्या भवति ४
षोडशिनमुपतिष्ठते
यस्मान्न जातः परो अन्यो अस्ति । य आविवेश भुवनानि विश्वा ।
प्रजापतिः प्रजया संविदानः । त्रीणि ज्योती ँषि सचते स षोडशी ॥
इति ५
शस्त्रं व्यत्यासं प्रतिगृणाति ओथा मोद इव मदा मोद इवोमथा इति ६
शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते चमसाँ
श्चमसाध्वर्यवः ७
अत्याक्रम्याश्राव्याह उक्थशा यज
सोमानाम् इति ८
वषट्कृते जुह्वति ९
षोडशिनं जुहोति इन्द्रा
धिपतेऽधिपतिस्त्वं देवानामस्यधिपतिं मामायुष्मन्तं
वर्चस्वन्तं मनुष्येषु कुरु इति १०
यथाचमसं चमसिनो
भक्षयन्ति
इन्द्र श्च सम्राड् वरुणश्च राजा । तौ ते भक्षं चक्रतुरग्र एतम् ।
तयोस्तु भक्षं भक्षयामि । वाग्जुषाणा सोमस्य तृप्यतु ॥
इति ११
अरुणपिशङ्गोऽश्वो दक्षिणाश्वतरी वा १२
इति वै खलु यदि षोडशी १३
अथ
यद्यतिरात्रः षोडशिचमसानुन्नयँ स्त्रयोदशभ्यश्चमसगणेभ्यो
राजनाम-तिरेचयति १४
इन्द्रा य त्वापिशर्वराय इति
मुख्यम्मुख्यं चमसमभिमृशति १५
होतृचमसानुन्नयति १६
स्तुतशस्त्रे अत्र भवतः
१७
शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते चमसाँ
श्चमसाध्वर्यवः १८
अत्याक्रम्याश्राव्याह
उक्थ-शा यज सोमानाम् इति १९
वषट्कृते जुह्वति २०
यथाचमसं
चमसिनो भक्षयन्ति २१
अनुष्टुप्छन्दस इन्द्र पीतस्य इति
भक्षमन्त्रं नमति २२
इति प्रथमश्चमसगणः २३
१६