१५

पुरस्तात्प्रत्यङ् तिष्ठन् होतृचमसे ध्रुवमवनयति ध्रुवं ध्रुवेण इत्यनुवाकशेषेण १ पश्चात्प्राङासीनोऽनुलोममवनयतीत्येकेषाम् २
सन्ततां धाराँ स्रावयत्या शस्त्रापवर्गात् ३
शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते चमसाँ श्चमसा-ध्वर्यवः ४ अत्याक्रम्याश्राव्याह उक्थशा यज सोमानाम् इति ५
वषट्कृते जुह्वति ६
यथाचमसं चमसिनो भक्षयन्ति । अग्निना वैश्वानरेण पीतस्य इति ग्रहस्य भक्षमन्त्रं नमति ७
तत आदित्यमुपतिष्ठत आहवनीयं वा सुभूरसि श्रेष्ठो रश्मीनामायुर्म इन्द्रि यं धेह्यदो म आ गम्यात् इति । यत् कामयते तस्य नाम गृह्णातीति विज्ञायते ८ इति वै खलु यद्यग्निष्टोमः ९
अथ यद्युक्थ्यः सर्व ँराजानं चमसेषून्नय दशाभिः कलशौ मृष्ट्वा न्युब्ज इति लुप्यत एतत्सम्प्रैषस्य १०
अग्निष्टोमचमसानुन्नयँ स्त्रिभ्यश्चमसगणेभ्यो राजानमतिरेचयति ११
तत उक्थ्यं विगृह्णाति यथा प्रातःसवने १२ एतावन्नाना । इन्द्रा वरुणाभ्यां त्वा इति मैत्रावरुणस्य ग्रहणसादनौ भवतः । इन्द्रा बृहस्पतिभ्यां त्वा इति ब्राह्म-णाछँ सिनः । द्रा विष्णुभ्यां त्वा इत्यछावाकस्य । एवमेवैतान् भक्षमन्त्रा-न्नमति १३
इति वै खलु यद्युक्थ्यः १४
अथ यदि षोडश्यछावाकचमसा-नुन्नयन्नेकस्मै चमसगणाय सग्रहाय राजानमतिरेचयति । तस्मिन्नेव काले षोडशिनमभिगृह्णाति १५ अपि वैनमत्रैवाग्रयणाद् गृह्णीयात् । न पूर्वयोः सवनयोः १६ अप्यग्निष्टोमे राजन्यस्य गृह्णीयादिति विज्ञायते १७
अनन्तरम-ग्निष्टोमचमसेभ्यो गृह्णीयात् १८ होतृचमसमुख्याँ श्चमसानुन्नयति १९
स्तुतशस्त्रे अत्र भवतः २० १५