ततः सौम्यं चरुं निर्वपति । सवनीयैर्वा सह १
तमासाद्य यथागृहीतमाज्यं
गृहीत्वात्याक्रम्याश्राव्याह घृतस्य यज इति २
वषट्कृते जुहोति
३
अत्रै-वोपविश्य प्राचीनावीतं कृत्वा हस्तेन सौम्यस्य पूर्वमवदानमवद्यति
मेक्षणे-नोत्तरम् ४
अभिघार्योदङ्ङत्याक्रम्याश्राव्याह सौम्यस्य यज इति
५
वषट्कृते दक्षिणार्धे जुहोति ६
अत्रैवोपविश्य यज्ञोपवीतं कृत्वाप
उपस्पृश्य यथा-गृहीतमाज्यं गृहीत्वात्याक्रम्याश्राव्याह
घृतस्य यज इति ७
वषट्कृते जुहोति ८
अन्यतरतः परीज्यामेके सौम्यस्य
समामनन्ति ९
आज्येन चरुमभि-पूर्योद्गातृभ्यो हरन्ति १०
तमवेक्षन्ते सत्रो त एतद्यदु त इह इति ११
यद्यगता-सुर्भवति परिपश्यति । यदि गतासुः स्यात्
सोऽवेक्षेत यन्मे मनः परागतम् इत्येतया १२
आमयाविना
प्राश्योऽन्नाद्यकामेन प्राश्यो
योऽलमन्नाद्याय सन्नन्नं नाद्यात्तेन प्राश्य इति विज्ञायते १३
जुह्वां नवगृहीतमाज्यं गृहीत्वा ज्वलतो धिष्णियान् व्याघारयति १४
व्याघारणसम्पातं निधायोपाँ शुपात्रेण पात्नीवत-माग्रयणाद् गृह्णाति
उपयामगृहीतोऽसि बृहस्पतिसुतस्य त इन्दो इन्द्रि यावतः पत्नीवन्तं
ग्रहं गृह्णामि इति १५
व्याघारणसम्पातं श्रीत्वात्याक्रम्याश्राव्याह
अग्नीत् पात्नीवतस्य यज इति १६
वषट्कृते जुहोति अग्नी३इ
पत्नीवा३
इत्यनुवाकशेषेण १७
सानुवषट्कारमेके पात्नीवतँ
समामनन्त्यननुवषट्कार-मेके । उपाँ
श्वनुवषट्करोतीत्येकेषाम् १८
१३