१२

स्वँ स्वं चमसमनू न्यन्ते त्री ँस्त्रीन् पुरोडाशशकलानुपन्यस्यन्ति १ एतत्ते तत ये च त्वामनु इत्येते दानप्रभृतयः प्रत्यायनान्ता मन्त्रा आम्नाता भवन्ति यथा पिण्डपितृयज्ञे २
स्वेभ्यः पितामहेभ्यो दद्युरित्येकम् । यजमान एव मन्त्रा-ञ्जपेत्तूष्णीमितर उपन्यस्येयुरित्यपरम् ३
अन्तर्यामपात्रेण सावित्रमाग्रयणाद् गृह्णाति वाममद्य सवितः इत्येतेनानुवाकेन ४
न सादयति ५
ततः सम्प्रेष्यति देवाय सवित्रेऽनुब्रूहि इति ६
अत्याक्रम्याश्राव्याह देवाय सवित्रे प्रेष्य इति ७
वषट्कृते जुहोति । नानुवषट्करोति ८
तस्मिन् ससँ स्रावे पात्रे वैश्वदेवं पूतभृतो गृह्णाति उपयामगृहीतोऽसि सुशर्मासि सुप्रतिष्ठानः इति ९ शस्त्रमत्र भवति १०
यत्राभिजानाति एकया च दशभिश्च स्वभूते इति तत् प्रतिप्रस्थाता द्विदेवत्यपात्राणि प्रक्षाल्य खरे सादयति ११
यत्राभिजानाति प्र द्यावा यज्ञैः पृथिवी ऋतावृधा इति तदन्यतरतोमोदं प्रतिगृणाति मदा मोद इवोथा मोद इव इत्याव्याहावात् १२
शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते नाराशँ सान् १३ अत्याक्रम्याश्राव्याह उक्थशा यज सोमस्य इति १४
वषट्कृते जुहोति १५
व्याख्यातमनुप्रकम्पनम् १६ सावित्रवैश्वदेवैः पीतस्य इति ग्रहस्य भक्षमन्त्रं नमति १७
व्याख्यातो नाराशँ सानाम् १८
सर्वान् भक्षयन्ति १९ नाप्याययन्ति । मार्जयन्ते २०
सर्वभक्षा एवात ऊर्ध्वं तृतीयसवने चमसा भवन्ति २१
१२