उपरिष्टाद् व्याघारणं व्याख्यास्यामः १
अपि वैताँ स्तत्रैव विहरेत् २
व्याख्यातँ सवनीयानां निर्वपणं बर्हिषः स्तरणमलङ्करणं
ग्रहावकाशोपस्थानं प्रसर्पणमिति ३
पशुना
प्रचरतीडान्तेन ४
स एष सर्वेषु सवनेषु
श्राप्यते तृतीयसवने वा ५
पशुना प्रचर्य सवनीयैः प्रचरति ६
एतावन्नाना । तृतीयस्य सवनस्येन्द्रा य पुरोडाशानामनुब्रूहि ॥ तृतीयस्य
सवनस्येन्द्रा य पुरोडाशान् प्रस्थितान् प्रेष्य इति सम्प्रेष्यति ७
व्याख्यातः स्विष्टकृत् । तथेडा ८
आधवनीयं पूतभृत्यवनयति ९
समानमा
सम्प्रैषात् १०
एतावन्नाना । होतृचमसमादाय तृतीयस्य
सवनस्यर्भुमतो विभुमतः प्रभुमतः परिभुमतो वाजवतः सवितृवतो
बृहस्पतिवतो विश्वदेव्यावतस्तीव्राँ आशीर्वत इन्द्रा य सोमान्
प्रस्थितान् प्रेष्य इति सम्प्रैषादिः ११
वषट्कृते जुह्वति श्येनाय
पत्वने स्वाहा इति १२
अनुवषट्कृते द्वितीयं वट् स्वयमभिगूर्ताय नमः
इति १३
एवमेव पुनरभ्युन्नीतानामुत्तराभ्यामुत्तराभ्यां
मन्त्राभ्यामुत्तरमुत्तरं जुहोति १४
सर्वान् हुताननुमन्त्रयते तृम्पन्ताँ होत्रा मधोर्घृतस्य इति
१५
समानमा प्राशनात् १६
उपन्यसनार्थान् पुरोडाशशकलान्निदधाति १७
यथाचमसं चमसिनो भक्षयन्ति । आदित्यवद्गणस्य सोम देव ते
इत्येष एव तृतीयसवने भक्षमन्त्रो भवत्यन्यत्र नाराशँ सेभ्यः १८
उभयीर्देवताः पुनरभ्युन्नीतेषूपलक्षयन्ति १९
असर्वान् भक्षयित्वाप्याययन्ति
२०
व्याख्यातमाप्यायनँ सादनम् २१
११