१०

उक्थ्यस्यावृतोक्थ्यं गृह्णाति यद्युक्थ्यसँ स्थो भवति १
आग्नीध्रे मन्थत आशिरं यजमानः पत्नी च । पत्न्याशिरं मन्थतीत्येके २
पूर्वया द्वारा यजमानः प्रपद्यते । अपरया पत्न्याशिरं प्रपादयति ३
यत् प्राक् पवमानग्रहेभ्यस्तत् कृत्वा यज-मानः सह पत्न्याशिरं पूतभृत्यवनयति अस्मे देवासो वपुषे चिकित्सत इत्येताभिश्चतसृभिः ४
समानमा पवमानात् ५ प्रत्यञ्चः प्रह्वा आर्भवं पवमानँ सर्पन्ति जागतः पन्था आदित्या देवतावृकेणापरिपरेण पथा स्वस्त्या-दित्यानशीय इति । वागग्रेगा अग्र एतु इति च ६
तस्य माध्यन्दिनेन पवमानेन सञ्चरो व्याख्यातः ७ स्तूयमाने यजमानोऽन्वारोहं जपति सघासि जगती-छन्दाः इति ८
समानमा सम्प्रैषात् ९
प्रतिप्रस्थातः पशौ संवदस्व इति सम्प्रैषान्तं नमति १०
समानमा धिष्ण्यानां विहरणात् ११
शलाकाभिर्ज्वलतो धिष्णियान् विहरति १२
१०