०९

आदित्यं यजमानोऽन्वारभते अहं परस्तादहमवस्तात् इति १
दर्भैराच्यावयति आ समुद्रा दान्तरिक्षात् इति २
दर्भैरपिधायोपनिष्क्रामति कविर्यज्ञस्य वि तनोति पन्थाम् इति ३ अत्याक्रम्याश्राव्याह आदित्येभ्यः प्रियेभ्यः प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य उरोरन्तरिक्षस्याध्यक्षेभ्यः प्रेष्य इति ४
अग्नौ दर्भान् प्रास्यति यास्ते विश्वाः समिधः सन्त्यग्ने इत्येतया ५
वषट्कृते-ऽन्यत्रेक्षमाणो जुहोति । नानुवषट्करोति ६
न हुत्वान्वीक्षेत ७
उन्नम्भय पृथिवीम् इति वृष्टिकामस्य जुहुयात् ८ सूदवदादित्यपात्रमायतने सादयित्वा सम्प्रेष्यति प्रतिप्रस्थातः सवनीयान्निर्वप इति ९
वसतीवरीभिर्होतृचमसं पूरयि-त्वा निग्राभ्यासु यजमानं वाचयति यथा प्रातःसवने १०
उपाँ शुपात्रा-दँ शुमृजीषेऽपिसृज्य महाभिषवमभिषुण्वन्ति यथा प्रातःसवने ११
समानमा ग्रहकालात् १२
नात्र शुक्रामन्थिनौ गृह्णाति १३
आग्रयणं चतसृभ्यो धाराभ्यो गृह्णाति १४
य एष आग्रयणस्थाल्याँ राजा तमन्यस्मिन् पात्रे पर्यासिच्य द्वितीयां धारां कुरुते । आदित्यपात्रात् तृतीयाम् । आदित्यस्थाल्याश्चतुर्थीम् १५