तृतीयसवनं व्याख्यास्यामः १
यदा बहवोऽन्तर्वेदि स्युरथादित्यं गृह्णीयात् २
यस्य भ्रातृव्यः सोमेन यजेत यावदादित्यं गृह्णीयात्तावद्बहिर्वेदि तिष्ठेत्
३
यस्य प्रसृप्तो भ्रातृव्यः स्यादन्तर्वेदि सत्यादित्यं गृह्णीयात् ४
हविर्धानयोर्द्वारे अपिधायादित्यस्थाल्या आदित्यपात्रे तृतीयं
गृह्णाति कदा चन स्तरीरसि इत्येताभिस्तिसृभिः ५
सोममग्रे गृह्णात्यथ
शृतातङ्क्यं दध्यथ सोमम् । त्रिष्टुभा मध्यतो दधि गृह्णातीति विज्ञायते ६
या दिव्या वृष्टिस्तया त्वा श्रीणामि इति दध्नोपरिष्टाद् वृष्टिकामस्य
श्रीणीयात् । न मध्यतो दधि गृह्णीयात् ७
सूदवदादित्यस्थालीमायतने
सादयित्वोपाँ शुसवनं ग्रहेऽवदधाति विवस्व आदित्यैष ते सोमपीथः इति ८
तमुद्यम्य विज्ञानमुपैति । यदि ताजग्बिन्दुः
प्रस्कन्देद्वर्षुकः पर्जन्यः स्यात् ।
यदि चिरमवर्षुकः ९
न सादयित्वा ग्रहमादायाध्वर्युस्तिष्ठति सूर्यो मा
देवो देवेभ्यः पातु इति १०
ततः सम्प्रेष्यति आदित्येभ्यः प्रियेभ्यः
प्रियधामभ्यः प्रियव्रतेभ्यो महस्वसरस्य पतिभ्य
उरो-रन्तरिक्षस्याध्यक्षेभ्योऽनुब्रूहि इति ११
८