माहेन्द्र ँशुक्रपात्रेण गृह्णाति महाँ इन्द्रो य ओजसा
इत्येतेनानुवाकेनोत्तरेण वा १
स्तुतशस्त्रे अत्र भवतः २
स्तोत्रमुपाकृत्य
सम्प्रेष्यति
अभिषोतारोऽभिषुणुतोलू-खलानुद्वादयाग्नीदाशिरं
विनय सौम्यस्य वित्तात् इति ३
अत्र तार्तीय-सवनीयकमभिषवमभिषुणुयात्
सवनीयान् सौम्यमिति निर्वपेदाशिरं विन-येदित्येकम् ।
तृतीयसवन इत्यपरम् ४
शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः ।
आददते नाराशँ सान् । आददतेऽतिग्राह्यान् ५
अत्याक्रम्याश्राव्याह उक्थशा यज
सोमस्य इति ६
वषट्कृते जुहोति ७
व्याख्यातमनुप्रकम्पनम् ८
ततोऽतिग्राह्यान्
जुह्वति अग्ने तेजस्विन् इत्येतैर्मन्त्रैर्यथारूपम् ९
व्याख्यातो ग्रहस्य
भक्षमन्त्रः १०
ततोऽतिग्राह्यान् भक्षयन्ति मयि मेधां मयि प्रजाम्
इत्येतैर्मन्त्रैर्यथारूपम् ११
व्याख्यातो नाराशँ सानाम् १२
सर्वान् भक्षयन्ति १३
नाप्याययन्ति । मार्जयन्ते १४
सर्वभक्षा एवात
ऊर्ध्वं माध्यन्दिने चमसा भवन्ति १५
तत उक्थ्यं विगृह्णाति यथा
प्रातःसवने १६
एतावन्नाना । इन्द्रा य त्वा ॥ इन्द्रा य त्वा इति सर्वत्र
ग्रहणसादनौ भवतः १७
ऐन्द्रो भक्षमन्त्रः १८
तस्मिन्नेव काले
षोडशिनमभिगृह्णाति १९
षोडशिनं गृहीत्वा
सम्प्रेष्यति उत्तमाँ श्चमसानुन्नय द्रो णकलशं पूतभृत्यवनय सर्व
ँराजानं चमसेषून्नय दशाभिः कलशौ मृष्ट्वा न्युब्ज इति २०
उक्थं वाचि
इत्याह माध्यन्दिनँ सवनं प्रतिगीर्य २१
विश्वे देवा मरुत इन्द्रो
अस्मान् इत्याहुति ँहुत्वा सम्प्रेष्यति प्रशास्तः प्रसुहि
इति २२
सर्पत इत्याह प्रशास्ता २३
सन्तिष्ठते माध्यन्दिनँ सवनम् २४
७