०६

यामन्यो दीयमानां न कामयेत यं द्विष्यात्तस्मै तां दक्षिणां दद्यादन्येन धनेन सह १
कुत एतेभ्यो दद्यात् । एतस्मादेव द्वादशाच्छतादित्येकम् । अन्यत इत्य-परम् २
वि सुवः पश्य व्यन्तरिक्षम् इति सदः प्रेक्षेत ३ सन्नीता दक्षिणा अनुमन्त्रयते अस्मद्दात्रा देवत्रा गच्छत इत्यनुवाकशेषेण ४
आग्नीध्रे वैश्व-कर्मणानि जुहोति यज्ञपतिमृषय एनसाहुः इति पञ्च ५
चात्वाले कृष्णविषाणां प्रास्यति

हरिणस्य रघुष्यतोऽधि शीर्षणि भेषजम् ।

सुक्षेत्रियं विषाणया विषूचीनमनीनशत् ॥

अनु त्वा हरिणो मृगःपद्भिश्चतुर्भिरक्रमीत् ।

विषाणे विष्यैतं ग्रन्थिं यदस्य गुल्फिदँ हृदि मनो यदस्य गुल्फिदम् ॥

इत्येताभ्याम् ६
ततः सम्प्रेष्यति इन्द्रा य मरुत्वतेऽनुब्रूहि इति ७
यदा मरुत्व-तेऽनूक्तं भवत्यथ न दीयत आनूबन्ध्यावपाया होमात् ८ पूर्वगृहीतमध्वर्युरादत्त उत्तरं प्रतिप्रस्थाता ९ अत्याक्रम्याश्राव्याह इन्द्रा य मरुत्वते प्रेष्य इति १०
वषट्कृते जुहुतः ११
सानुवषट्कारावेके मरुत्वतीयौ समामनन्ति । अननु-वषट्कारावेके । उत्तरँ सानुवषट्कारमेके १२
व्यवनयेते यथर्तुग्रहेषु १३
प्रतिप्रस्थानेन भक्षयन्ति १४
अत्रैव पात्रं निधायाध्वर्युः स्वेन पात्रेण सँ स्रावे-णोत्तमं मरुत्वतीयं गृह्णाति मरुत्वाँ इन्द्र वृषभो रणाय इति १५
शस्त्रमत्र भवति १६ ऋतुपात्रमारभ्य प्रतिगृणाति १७
शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते नाराशँ सान् १८
अत्याक्रम्याश्राव्याह उक्थशा यज सोमस्य इति १९
वषट्कृते जुहोति २० व्याख्यातमनुप्रकम्पनम् २१
व्याख्यातो ग्रहस्य भक्षमन्त्रः २२
व्याख्यातो नाराशँ सानाम् २३
असर्वान् भक्षयित्वाप्याययन्ति २४
व्याख्यातमाप्यायनँ सादनम् २५