आग्नीध्र एतदाज्यं जुहोति अग्ने नय सुपथा राये अस्मान् इत्येतया १
वनेषु
व्यन्तरिक्षं ततान इति वारुण्या द्वितीयया जुहुयाद्यद्यनो रथोऽश्वो
वासोऽपि वा दीयेत २
प्राजापत्यया तृतीयया जुहुयाद्यदि हस्तिनं पुरुषं
वा दास्यन् स्यात् ३
आत्रेयाय प्रथमाय हिरण्यं ददाति
मध्यमायेत्येकेषामुत्तमायेत्येकेषां
ब्राह्म-णमद्य राध्यासमृषिमार्षेयम् इति ४
यद्यात्रेयं न विन्देद्य
आर्षेयः सँ हितस्तस्मै दद्यात् ५
आग्नीध्रायाग्र उपबर्हणँ
सार्वसूत्रं ददात्यजं च ६
ततो ब्रह्मणे यथान्यां
दक्षिणां नातिध्यायेदेवं दद्यात् ७
तत उद्गातृभ्यो
होतृभ्यः ८
अध्व-र्युभ्यस्तु हविर्धान आसीनेभ्यः ९
अन्ततः
प्रतिहर्त्रे ददाति १०
अर्धमर्धिभ्य-स्तृतीयं तृतीयिभ्यः पादं पादिभ्यः ।
ते द्वादशाहे व्याख्याताः ११
ऋत्विग्भ्यो दत्त्वा प्रसर्पकेभ्यो ददाति १२
एते दक्षिणेन पृष्ठ्यामन्तः सदस्युपविष्टा भवन्ति १३
नानार्षेयाय
विदुषे ददाति । नार्षेयायाविदुषे । आर्षेयायैव विदुषे ददाति १४
न कण्वकश्यपेभ्यो न ज्ञातये नर्त्विजे प्रसृप्ताय न भीतो न याच-मानाय । यां
याचमानाय ददात्येनँ सा दक्षिणा गच्छतीति विज्ञायते १५
ब्राह्मणाय
श्रोत्रियायान्तर्वेद्यासीनाय दक्षिणां ददाति १६
अप्यब्राह्मणाय विद्याविदे देयम् १७
५