०५

आग्नीध्र एतदाज्यं जुहोति अग्ने नय सुपथा राये अस्मान् इत्येतया १
वनेषु व्यन्तरिक्षं ततान इति वारुण्या द्वितीयया जुहुयाद्यद्यनो रथोऽश्वो वासोऽपि वा दीयेत २
प्राजापत्यया तृतीयया जुहुयाद्यदि हस्तिनं पुरुषं वा दास्यन् स्यात् ३
आत्रेयाय प्रथमाय हिरण्यं ददाति मध्यमायेत्येकेषामुत्तमायेत्येकेषां ब्राह्म-णमद्य राध्यासमृषिमार्षेयम् इति ४
यद्यात्रेयं न विन्देद्य आर्षेयः सँ हितस्तस्मै दद्यात् ५
आग्नीध्रायाग्र उपबर्हणँ सार्वसूत्रं ददात्यजं च ६
ततो ब्रह्मणे यथान्यां दक्षिणां नातिध्यायेदेवं दद्यात् ७
तत उद्गातृभ्यो होतृभ्यः ८
अध्व-र्युभ्यस्तु हविर्धान आसीनेभ्यः ९
अन्ततः प्रतिहर्त्रे ददाति १०
अर्धमर्धिभ्य-स्तृतीयं तृतीयिभ्यः पादं पादिभ्यः । ते द्वादशाहे व्याख्याताः ११
ऋत्विग्भ्यो दत्त्वा प्रसर्पकेभ्यो ददाति १२ एते दक्षिणेन पृष्ठ्यामन्तः सदस्युपविष्टा भवन्ति १३
नानार्षेयाय विदुषे ददाति । नार्षेयायाविदुषे । आर्षेयायैव विदुषे ददाति १४ न कण्वकश्यपेभ्यो न ज्ञातये नर्त्विजे प्रसृप्ताय न भीतो न याच-मानाय । यां याचमानाय ददात्येनँ सा दक्षिणा गच्छतीति विज्ञायते १५
ब्राह्मणाय श्रोत्रियायान्तर्वेद्यासीनाय दक्षिणां ददाति १६ अप्यब्राह्मणाय विद्याविदे देयम् १७