सन्नेषु नाराशँ सेषूत्तरेण हविर्धान उत्तरेणाग्नीध्रीयमुत्तरेण सदः परीत्य
पूर्वया द्वारा प्राग्वँ शं प्रविश्यापरेण शालामुखीयमुपविश्य जुह्वां
चतुर्गृहीतमाज्यं गृहीत्वा दर्भेण हिरण्यं निष्टर्क्यं
बद्ध्वावदधाति १
अमात्यानाँ सँ ह्वानँ
समन्वारम्भणँ सम्प्रच्छादनमिति वैसर्जनेषु
व्याख्यातम् २
वाससोऽन्तँ स्रुग्दण्ड उपनियम्य जुहोति
दाक्षिणानि ३
उदु त्यम् ॥ चित्रम् इति द्वाभ्यां गार्हपत्ये जुहोति ४
अपरं चतुर्गृहीतं गृहीत्वा ५
दिवं गच्छ सुवः पत इति हिरण्यँ
हुत्वोद्गृह्णाति ६
अथैना दक्षिणा दक्षिणेन
वेदिमवस्थिता भवन्ति गवां द्वादशशतं तिला माषा ओदनो मन्थोऽजोऽविर्वासो
हिरण्यमनो रथोऽश्वो हस्ती पुरुष इति । एकवि ँशतिरित्येकेषाम् ।
चतुर्वि ँशतिरित्येकेषाम् । अपरिमिता इत्येकेषाम् ।
सर्ववेदसमित्येकेषाम् ७
हिरण्यं चाज्यं च
धारयमाणो यजमानो दक्षिणा अभ्यैति रूपेण वो रूपमभ्यैमि वयसा वयः
इति ८
तुथो वो विश्ववेदा वि भजतु इति मध्यमवक्रामति ९
अथैनाः
कृष्णाजिनेन व्युत्त्रास्य विभज्य वाविभज्य
वात्यानयत्यग्रेण प्राग्वँ शं जघनेन सदोऽन्तरेण
नेष्टुश्चाग्नीध्रस्य च १०
ता उदीचीरन्तरेण चात्वालं चाग्नीध्रं
चोत्सृजति ११
अत्यायतीष्वाहवनीयम-भिमन्त्रयते एतत्ते अग्ने राध एति
सोमच्युतम् इति प्रतिपद्य यज्ञस्य पथा सुविता नयन्तीः
इत्यन्तेन १२
४