०३

अथैतदाग्नीध्रेऽधिश्रयति वाक् च त्वा मनश्च श्रीणीताम् । प्राणश्च त्वापानश्च श्रीणीताम् । चक्षुश्च त्वा श्रोत्रं च श्रीणीताम् । दक्षश्च त्वा बलं च श्रीणीताम् । ओजश्च त्वा सहश्च श्रीणीताम् । आयुश्च त्वा जरा च श्रीणीताम् । आत्मा च त्वा तनूश्च श्रीणीताम् । शृतोऽसि शृतङ्कृतः । शृताय त्वा शृतेभ्यस्त्वा इति १ ततः सम्प्रेष्यति होतर्वदस्व यत्ते वाद्यम् इति २
यत्राभिजानाति यदि श्रातो जुहोतन यद्यश्रातो ममत्तन इति तत आह श्रातँ हविःइति ३ अत्याक्रम्याश्राव्याह दधिघर्मस्य यज इति ४
वषट्कृते जुहोति

यमिन्द्र माहुर्वरुणं यमाहुः । यं मित्रमाहुर्यमु सत्यमाहुः ।

यो देवानां देवतमस्तपोजाः । तस्मै त्वा तेभ्यस्त्वा स्वाहा ॥

इति ५
अनुवषट्कृते द्वितीयँ हुत्वावशिनष्टि ६
तं ते भक्षयन्ति ये प्रवर्ग्यम् । तस्यारण्येऽनुवाक्ये भक्षमन्त्रः ७ नाप्रवर्ग्ये दधिघर्मो विद्यत इत्यपरम् ८
ततः सवनीयानासादयति ९ पशुपुरोडाशेन प्रचर्य सवनीयैः प्रचरति १०
एतावन्नाना । माध्यन्दिनस्य सवनस्येन्द्रा य पुरोडाशानामनुब्रूहि ॥ माध्यन्दि-नस्य सवनस्येन्द्रा य पुरोडाशान् प्रस्थितान् प्रेष्य इति सम्प्रेष्यति ११
सर्वेषाँ सपशुपुरोडाशानाँ समानः स्विष्टकृत् प्रैषवान् समानेडा १२
न सवनीयस्य पशुपुरोडाशो विद्यत इत्यपरम् १३
आधवनीयं पूतभृत्यवनयति १४ समानमा सम्प्रैषात् १५
एतावन्नाना । माध्यन्दिनस्य सवनस्य निष्केवल्यस्य भागस्य शुक्रवतो मन्थिवतो मधुश्चुतः इति सम्प्रैषादिः १६
समानमा पुनरभ्युन्नीतेभ्यः १७
पूर्व आग्नीध्रादछावाकः संयजति १८
नात्र पुरोडाशशकलमछावाकाय निदधाति १९
यथाचमसं चमसिनो भक्षयन्ति २०
रुद्र वद्गणस्य सोम देव ते इत्येष एव माध्यन्दिने सवने भक्षमन्त्रो भवत्यन्यत्र नाराशँ सेभ्यः २१
असर्वान् भक्षयित्वाप्याययन्ति २२
व्याख्यातमाप्यायनँ सादनम् २३