ऋतुपात्राभ्यां मरुत्वतीयौ गृह्णाति । अध्वर्युपात्रेण पूर्वं मरुत्वन्तं
वृषभं वावृधानम् इति । प्रतिप्रस्थात्रेणोत्तरम् इन्द्र मरुत्व इह पाहि
सोमम् इति १
द्रो णकलशे राजानमतिपावयति यावन्तं माध्यन्दिनाय सवनायाप्तं
मन्यते २
समानमा पवमानात् ३
प्रत्यञ्चः प्रह्वा माध्यन्दिनं पवमानँ
सर्पन्ति त्रैष्टुभः पन्था रुद्रा देवता वृकेणापरिपरेण पथा स्वस्ति
रुद्रा नशीय इति । वागग्रेगा अग्र एतु इति च ४
उत्तरेण
हविर्धाने दक्षिणेन मार्जालीयं परीत्य पूर्वया द्वारा सदः
प्रविश्याग्रेण होत्रीयमध्वर्युरवतिष्ठते । अग्रेण
प्रशास्त्रीयमतिक्रम्येतरे ५
माध्यन्दिनेन पवमानेन स्तुवते ६
स्तूयमाने यजमानोऽन्वारोहं जपति
सु-पर्णोऽसि त्रिष्टुप्छन्दाः इति ७
समानमा सम्प्रैषात् ८
नात्र पशुं प्रचोदयति । न राजानमुपतिष्ठते ।
प्रतिप्रस्थातर्दधिघर्मेणानूदेहि
इति सम्प्रैषान्तं नमति ९
समानमा सवनीयानां निर्वपणात् १०
सवनीयान्निर्वप्स्यन्नाग्नेयं
पशुपुरोडाशं निर्वपत्यग्निष्टोमे । ऐन्द्रा ग्नमुक्थ्ये
द्वितीयम् । ऐन्द्र ँषोडशिनि तृतीयम् । सारस्वतमतिरात्रे चतुर्थम्
११
ततः सवनीयान्निर्वपति १२
एतावन्नाना । नोत्तरयोः सवनयोः पयस्या भवति १३
व्याख्यातँ सवनीयानां निर्वपणं बर्हिस्तरणमलङ्करणं ग्रहावकाशोपस्थानँ
सर्पणमिति १४
दधिघर्मेण चरति १५
औदुम्बर्या ँ!
स्रुच्यामाग्नीध्रीये दधि गृह्णाति
यावति द्यावापृथिवी महित्वा इति १६
२