माध्यन्दिनँ सवनं व्याख्यास्यामः १
तस्य प्रातःसवनेन कल्पो व्याख्यातः २
विकाराननुक्रमिष्यामः ३
ततः सम्प्रेष्यति प्रतिप्रस्थातः
सवनीयान्निर्वप इति ४
वसतीवरीभिर्होतृचमसं पूरयित्वा
निग्राभ्यासु यजमानं वाचयति यथा प्रातःसवने ५
अधिषवणचर्मणि सर्व ँराजानं
न्युप्य ग्रावस्तुत उष्णीषं प्रयच्छति ६
असम्प्रेषितो ग्रावस्तोत्रीया
अन्वाह ७
महाभिषवमभिषुण्वन्ति यथा प्रातःसवने ८
एतावन्नाना ।
इहाभ्य इह इत्यभिषुण्वन्ति ९
उत्तमस्या-भिषवनस्य मध्यमे पर्याये बृहत्
इत्यभिषुण्वन्ति १०
अथोत्तमं पर्यायँ राधयन्त इवाभिषुण्वन्ति इहाभ्य इह
इहाभ्य इह इति ११
उत्तमे पर्यायेऽभिषुतो राजा भवत्यसम्भृतोऽथ
प्रतिप्रस्थाता ग्राव्णोऽनुमोदते देवा ग्रावाण
इन्दुरिन्द्र इत्यवादिषुः । एन्द्र मचुच्यवुः । परमस्याः
परावतः । आस्मात्सधस्थात् । ओरोरन्तरिक्षात् । आ सुभूतमसुषवुः
। ब्रह्मवर्चसं म आ सुषवुः । समरे रक्षाँ स्यवधिषुः । अपहतं ब्रह्मज्यस्य
इति १२
समानमा ग्रहकालात् १३
शुक्रामन्थिनावेवाग्रे गृह्णाति १४
आग्रयणं
तिसृभ्यो धाराभ्यो गृह्णाति १५
य एवाग्रयणस्थाल्याँ राजा तमन्यस्मिन्
पात्रे पर्यासिच्य द्वितीयां धारां कुरुते । उदचनात्तृतीयाम् १६
उक्थ्यस्यावृतोक्थ्यं गृहीत्वा १७
१