यदि कामयेताध्वर्युरात्मानं यज्ञयशसेनार्पयेयमित्येतद्यथासमाम्नातम् १
यथाचमसं चमसिनो भक्षयन्ति मन्द्रा भिभूतिः इति २
एवं
प्रतिप्रस्थातो-त्तराभ्यामुक्थ्यविग्रहाभ्यामभक्षयन्
प्रचरति ३
यो यो मुख्यश्चमसस्तस्मिँ स्त-स्मिन् सँ स्रावमवनयति ४
ब्राह्मणाछँ सिचमसमुख्यो द्वितीयः ।
अछावा-कचमसमुख्यस्तृतीयः ५
एतेन
शस्त्रयाज्यानामानुपूर्व्यं व्याख्यातम् ६
एतावन्नाना ।
इन्द्रा त्वा इति ब्राह्मणाछँ सिनो ग्रहणसादनौ भवतः । ऐन्द्रो
भक्षमन्त्रः । इन्द्रा ग्निभ्यां त्वा इत्यछावाकस्य
ग्रहणसादनौ भवतः । मन्द्रा -भिभूतिः इति भक्षमन्त्रः ७
उत्तममुक्थ्यविग्रहं गृहीत्वा न स्थालीं प्रत्यभि-मृशति ८
न्युप्योक्थ्यस्थाली ँषोडशिनं गृह्णाति आ
तिष्ठ वृत्रहन् रथम् इत्येते-नानुवाकेनोत्तरेण वा ९
अपि वैनं
धाराग्रहाणामुत्तमं गृह्णीयात् १०
एवमेवोत्तरेणानुवाकेन
सवनेसवने षोडशिनमभिगृह्णाति ११
षोडशिनं गृहीत्वा सम्प्रेष्यति
उत्तमाँ श्चमसानुन्नय द्रो णकलशं पूतभृत्यवनय सर्व ँराजानं चमसेषून्नय
दशाभिः कलशौ मृष्ट्वा न्युब्ज इति १२
उक्थशा इत्याह प्रातःसवनं
प्रतिगीर्य १३
अग्निः प्रातःसवने पात्वस्मान् इत्याहुतिँ
हुत्वा सम्प्रेष्यति प्रशास्तः प्रसुहि इति १४
सर्पत इत्याह प्रशास्ता
१५
सन्तिष्ठते प्रातःसवनम् १६
३३
इति त्रयोदशः प्रश्नः