वषट्कारं चानुवषट्कारं चानु प्रकम्पयन्ति नाराशँ सान् १
ऐन्द्रै रेव
ग्रह-भक्षमन्त्रो व्याख्यातः २
नाराशँ सान् भक्षयन्ति नराशँ
सपीतस्य सोम देव ते इति ३
एवमेवोत्तरेणोत्तरेण नाराशँ सेन सवनेसवने
नाराशँ सान् भक्षयन्ति ४
असर्वान् भक्षयित्वाप्याययन्ति ५
व्याख्यातमाप्यायनँ सादनम् ६
वैश्वदेवँ
शुक्रपात्रेण गृह्णाति ओमासश्चर्षणीधृतः
इत्येतेनानुवाकेन ७
स्तुतशस्त्रे अत्र
भवतः ८
शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते नाराशँ
सान् ९
अत्या-क्रम्याश्राव्याह उक्थशा यज सोमस्य इति १०
वषट्कृते
जुहोति ११
व्याख्यातमनुप्रकम्पनम् १२
व्याख्यातो ग्रहस्य भक्षमन्त्रः
१३
व्याख्यातो नाराशँ सानाम् १४
सर्वान् भक्षयन्ति । नाप्याययन्ति ।
मार्जयन्ते १५
सर्वभक्षा एवात ऊर्ध्वं प्रातःसवने चमसा भवन्ति १६
तत
उक्थ्यं विगृह्णाति १७
उक्थ्यस्थाल्या उक्थ्यपात्रे तृतीयं गृह्णाति
उपयामगृहीतोऽसि मित्रा-वरुणाभ्यां त्वा इति १८
अथैनँ सादयति एष
ते योनिर्मित्रावरुणाभ्यां त्वा इति १९
पुनर्हविरसि इति स्थालीं
प्रत्यभिमृशति २०
मैत्रावरुणचमस-मुख्याँ श्चमसानुन्नयति २१
स्तुतशस्त्रे अत्र भवतः २२
शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः ।
आददते चमसाँ श्चमसाध्वर्यवः २३
अत्याक्रम्याश्राव्याह उक्थ-शा यज
सोमानाम् इति २४
वषट्कृते जुह्वति २५
मैत्रावरुणचमसेऽध्वर्युः
सँ स्रावमवनयति देवेभ्यस्त्वा देवायुवं पृणज्मि यज्ञस्यायुषे इति २६
३२