३१

ससँ स्रावेणैन्द्रा ग्नं गृह्णाति इन्द्रा ग्नी आगतँ सुतम् इति १ शस्त्रमत्र भवति २
अग्रेण होतारमुपविश्याध्वर्युः शस्त्रमुपाकरोति इडा देवहूः इत्यनुवाकशेषेण ३
एतेनैव सर्वाणि शस्त्राण्युपाकरोति ४
अथैनं पराञ्चमूर्ध्वज्ञुमासीन-मभ्याह्वयते होता ५
शॐसा मोद इव इति प्रदक्षिणमावर्तते ६ ऋतुपात्र-मारभ्योर्ध्वस्तिष्ठन् सदोबिले प्रतिगृणाति प्रह्वो वा ७
ओथा मोद इव इत्यर्धर्चेषु ८
ओमोथा मोद इव इति प्रणवेषु ९
नाभिप्रतिगृणीयात् । नार्धर्चाल्लुप्यते १०
यत्र यत्र होता विरमेत् ओमोथा मोद इव इत्येव ब्रूयात् ११
उभयं व्याहावे करोति शॐसा मोद इवोथा मोद इव इति १२
परिधानीयाया उत्तमेन प्रणवेन सह प्रणौति १३
एवमेव सर्वाणि शस्त्राणि प्रतिगृणात्यन्यत्र पात्रारम्भणात् १४ शस्त्रमनुमन्त्रयते शस्त्रस्य शस्त्रमसि इति १५
एतेनैव सर्वाणि शस्त्राण्यनु-मन्त्रयते १६
शस्त्रं प्रतिगीर्यादत्ते ग्रहमध्वर्युः । आददते नाराशँ सान् १७
अत्याक्रम्याश्राव्याह उक्थशा यज सोमस्य इति १८
वषट्कृते जुहोति १९
३१