३०

पूर्वेषाँ शेष उत्तरानभिगृह्णीतः १
असन्ना हूयन्ते २
ऋतुना प्रेष्य इति त्रिरध्वर्युराह । त्रिः प्रतिप्रस्थाता ३
पर्यावृत्य पात्रम् ऋतुभिः प्रेष्य इति द्विरध्वर्युराह । द्विः प्रतिप्रस्थाता ४ पर्यावृत्य पात्रम् ऋतुना प्रेष्य इति सकृदध्वर्युराह । सकृत् प्रतिप्रस्थाता ५
यत्राभिजानाति अध्वर्यू यजतम् इति तदध्वर्युराह होतरेतद्यज इति ६
यत्राभिजानाति गृहपते यज इति तद्यजमान आह होतरेतद्यज इति ७
अननुवषट्कारा ऋतुग्रहा भवन्ति ८ अध्वर्युपात्रे प्रतिप्रस्थाता संस्रावमानयति । अध्वर्युः प्रतिप्रस्थातुः पात्रे ९
प्रतिप्रस्थाता तेन भक्षमाहरति १० एवमनुपूर्वं यो यो यजति तं तं प्रतिभक्षयतः मन्द्रा भिभूतिः इति । होतारमध्वर्युः । पोतारं प्रतिप्रस्थाता । नेष्टारमध्वर्युः । आग्नीध्रं प्रतिप्रस्थाता । ब्राह्मणाछँ सिनमध्वर्युः । मैत्रावरुणं प्रतिप्रस्थाता । होतारमध्वर्युः । पोतारं प्रतिप्रस्थाता । नेष्टारमध्वर्युः । अछावाकं प्रतिप्रस्थाता । होतारमेवाध्वर्युः । होतारं प्रतिप्रस्थाता ११
अत्रैव पात्रं निधायाध्वर्युः स्वेन पात्रेण १२
३०