पूर्वेषाँ शेष उत्तरानभिगृह्णीतः १
असन्ना हूयन्ते २
ऋतुना प्रेष्य इति
त्रिरध्वर्युराह । त्रिः प्रतिप्रस्थाता ३
पर्यावृत्य पात्रम्
ऋतुभिः प्रेष्य इति द्विरध्वर्युराह । द्विः प्रतिप्रस्थाता ४
पर्यावृत्य पात्रम् ऋतुना प्रेष्य इति सकृदध्वर्युराह । सकृत्
प्रतिप्रस्थाता ५
यत्राभिजानाति अध्वर्यू यजतम् इति
तदध्वर्युराह होतरेतद्यज इति ६
यत्राभिजानाति गृहपते यज
इति तद्यजमान आह होतरेतद्यज इति ७
अननुवषट्कारा ऋतुग्रहा भवन्ति ८
अध्वर्युपात्रे प्रतिप्रस्थाता संस्रावमानयति । अध्वर्युः
प्रतिप्रस्थातुः पात्रे ९
प्रतिप्रस्थाता तेन भक्षमाहरति १०
एवमनुपूर्वं यो यो यजति तं तं प्रतिभक्षयतः मन्द्रा
भिभूतिः इति । होतारमध्वर्युः । पोतारं प्रतिप्रस्थाता ।
नेष्टारमध्वर्युः । आग्नीध्रं प्रतिप्रस्थाता ।
ब्राह्मणाछँ सिनमध्वर्युः । मैत्रावरुणं
प्रतिप्रस्थाता । होतारमध्वर्युः । पोतारं
प्रतिप्रस्थाता । नेष्टारमध्वर्युः । अछावाकं
प्रतिप्रस्थाता । होतारमेवाध्वर्युः । होतारं
प्रतिप्रस्थाता ११
अत्रैव पात्रं निधायाध्वर्युः स्वेन पात्रेण १२
३०