तत ऋतुग्रहैश्चरतः १
दक्षिणमृतुपात्रमध्वर्युरादत्त उत्तरं प्रतिप्रस्थाता
२
सह प्रथमौ गृह्णीतः सहोत्तमौ ३
गृह्णात्यध्वर्युः उपयामगृहीतोऽसि
मधुश्च इति । उपयामगृहीतोऽसि माधवश्च इति प्रतिप्रस्थाता ४
उपनिष्क्रम्याध्वर्युरत्या-क्रम्याश्राव्याह ऋतुना प्रेष्य इति ५
वषट्कृते जुहोति ६
आवर्ततेऽध्वर्युः ७
उपनिष्क्रम्य
प्रतिप्रस्थातात्याक्रम्याश्राव्याह
ऋतुना प्रेष्य इति ८
वषट्कृते जुहोति ९
नान्योऽन्यमनुप्रपद्येत । द्वार एव
व्यतीतः १०
प्रसिद्धमेवा-ध्वर्युर्दक्षिणेन प्रपद्यते । प्रसिद्धं
प्रतिप्रस्थातोत्तरेण ११
प्रत्यञ्चं यन्तमध्वर्युं
प्रतिप्रस्थाता ग्रहेण परिप्रगृह्णाति । प्राञ्चं
यन्तं पात्रेण १२
एवमेवोत्तरैरुत्तरै-र्मन्त्रैर्गृह्णीतः १३
पूर्वेणपूर्वेणाध्वर्युरुत्तरेणोत्तरेण प्रतिप्रस्थाता १४
अध्वर्युरेव त्रयोदशं गृह्णाति उपयामगृहीतोऽसि सँ
सर्पोऽस्यँ हस्पत्याय त्वा इति १५
द्वादश गृह्यन्त इति
विज्ञायते । त्रयोदशेत्येकेषाम् । चतुर्दशेत्येकेषाम् १६
सह
प्रथमौ जुहुतो यदि त्रयोदश गृह्यन्ते १७
सहप्रथमौ सहोत्तमौ यदि
चतुर्दश १८
२९