सीदत्यछावाकोऽग्रेण स्वं धिष्णियं बहिः सदसः १
तस्मै पुरोडाशशकल-मादधदाह
अछावाक वदस्व यत्ते वाद्यम् इति २
यत्राभिजानाति उपो अस्मान्
ब्राह्मणान् ब्राह्मणा ह्वयध्वम् इति तत आह अछावाको वा
अयमुपहवमिच्छते तँ होतरुपह्वयस्व इति ३
तमृचा होतोपह्वयते ४
यत्राभिजानाति उत नो गाव उपहूता उपहूतः इति तत आह
उन्नीयमानायानुब्रूहि इति ५
उन्नीतमछावाक-चमसमादायात्याक्रम्याश्राव्याह
अछावाक यज इति ६
वषट्कृते जुहोति ७
अछावाकाय भक्षं प्रयच्छति ८
नास्मिन्नछावाक उपहवमिच्छते ९
नैतेन सम्भक्षयेत् १०
यद्यस्मिन्नुपहवमिच्छेत भक्षय इत्येनं ब्रूयात् ११
भक्षितम-छावाकचमसमाप्यायितमन्तरेण
नेष्टुश्चाग्नीध्रस्य च चमसौ सादयति १२
अत्र सवनीयानां पिष्टलेपफलीकरणहोमौ
जुहोति १३
कपालानि विमुञ्चति १४
अत्रैके वाजिनचर्या ँसमामनन्ति १५
२८