होता प्रथमो भक्षयत्यथाध्वर्युरथ प्रतिप्रस्थाता १
यत्र क्व चैकपात्रे
भक्षयेयुर्द्वौ वा बहवो वा वषट्कर्तैव प्रथमो भक्षयेत् २
ये के
चैककाले भक्षयेयुः सर्व एव मिथः कर्मनामभिः समुपह्वयेरन् ३
असावसावुपह्वयस्व इत्यामन्त्रणः । उपहूतः इति
प्रतिवचनः ४
भक्षयित्वात्मानं प्रत्यभिमृशति हिन्व मे गात्रा
हरिवः इति ५
यत्र क्व च भक्षयेदेवमेवात्मानं प्रत्यभिमृशेत् ६
भक्षयित्वा नानुत्सृजन्त्यावनयनात् ७
होतृचमसे
द्विदेवत्यसम्पातानवनीय
पुरोडाश-शकलमैन्द्र वायवस्य पात्रेऽवदधाति ।
पयस्यां मैत्रावरुणस्य । धाना आश्विनस्य ८
अथैतानि दक्षिणस्य
हविर्धानस्योत्तरस्यां वर्तन्यां पश्चादक्षँ सादयति ९
एवँ सन्नान्येव भवन्त्या तृतीयसवनात् १०
निरवदाय होत्र इडामादधाति ११
उपह्वयते होतेडाम् १२
उपोद्यच्छन्त्यस्मै चमसान् १३
होतृचमसँ सँ
स्पृष्टं धारयति १४
उपहूतामिडां प्राश्नन्ति ये प्रकृतौ १५
पुरोडाशशकलमछावाकाय निदधाति १६
यथाचमसं चमसिनो
भक्षयन्ति १७
वसुमद्गनस्य सोम देव ते इति मध्यतःकारिणः १८
अनैन्द्रै रेवेतरेषां भक्षमन्त्रो व्याख्यातः १९
सर्वेषु चमसेषु होता
भक्षयति २०
सर्वेषु पुन-रभ्युन्नीतेष्वध्वर्युः मन्द्रा भिभूतिः
इति २१
यतरोऽध्वर्युर्जुहुयात् स वषट्कर्तारं प्रतिभक्षयेत् २२
भक्षयित्वाप्याययति आ प्यायस्व समेतु ते इति २३
यत्र क्व
चाप्याययेदेतयैवाप्याययेत् २४
सीदन्ति नाराशँ सा आप्यायिता
दक्षिणस्य हविर्धानस्याधस्तादपालम्बे २५
२७