ततः पुनरभ्युन्नीतैश्चरन्ति १
द्रो णकलशादभ्युन्नीता भवन्ति २
मैत्रावरुण-चमसमादायाध्वर्युरत्याक्रम्याश्राव्याह
प्रशास्तर्यज इति । वषट्कृते जुहोति ३
एवमनुपूर्वं यो यो यजते तं तं
सम्प्रेष्यति ब्रह्मन् यज । पोतर्यज । नेष्टर्यज । अग्नीद्यज
इति ४
एतेषामेते चमसा भवन्ति ५
सर्वासु सोमाहुतीष्व-नुवषट्कार आम्नातो
भवति ६
अयाडग्नीत् इति होत्र आचष्टे ७
स भद्र मकर्यो नः सोमं
पाययिष्यति इति होता प्रत्याह ८
भक्षमभिमन्त्रयते भक्षेहि
माविश इति ९
प्रतिगृह्णाति अश्विनोस्त्वा बाहुभ्याँ सघ्यासम् इति १०
अवेक्षते नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम् इति ११
यत्र
क्व च भक्षयेदेवमेवैतान् मन्त्राञ्जपेत् १२
अथैतमुपहवमिष्ट्वा
प्राणेषूपनियम्य भक्षयति मन्द्रा -भिभूतिः इति १३
ये
के चानैन्द्रा अनाराशँ साः प्रातःसवन एष एवैतेषां भक्षमन्त्रो भवति १४
वाग्देवी सोमस्य तृप्यतु इत्येके सार्वत्रिकँ समामनन्ति १५
द्विरैन्द्र वायवं भक्षयति सकृत् सकृदितरौ ।
चक्षुषोरुपनिग्राहं मैत्रावरुणम् ।
श्रोत्रयोरुपनिग्राहँ सर्वतःपरिहारमाश्विनम् १६
२६