तौ देवौ शुक्रामन्थिनौ । कल्पयतं दैवीर्विशः । कल्पयतं मानुषीः ।
ईष-मूर्जमत्मासु धत्तम् । प्राणान् पशुषु । प्रजां मयि च
यजमाने च इति १
पुरस्तात्प्रत्यञ्चावुत्तरवेदिमाक्रम्य
बहिर्वेद्यप्रोक्षितौ शकलौ
निरस्यतस्तेनैव मन्त्रेण २
अप उपस्पृश्याग्नौ प्रोक्षितौ
प्रास्यतः । शुक्रस्य समिदसि इत्यध्वर्युः । मन्थिनः समिदसि इति
प्रतिप्रस्थाता ३
पश्चात्प्राञ्चश्चमसाध्वर्यवश्चमसैर-वतिष्ठन्ते ४
आश्राव्य प्रत्याश्राविते सम्प्रेष्यति प्रातः प्रातःसावस्य शुक्रवतो
मन्थिवतो मधुश्चुत इन्द्रा य सोमान् प्रस्थितान् प्रेष्य
मध्यतःकारिणां चमसाध्वर्यवो
वषट्कृतानुवषट्कृताञ्जुहुत
होत्रकाणां चमसाध्वर्यवः सकृत् सकृद्धुत्वा
शुक्रस्याभ्युन्नीयोपावर्तध्वम्
इति ५
वषट्कृते जुह्वति ६
शुक्रामन्थिनौ जुहुतः ।
स प्रथमः सङ्कृतिर्विश्वकर्मा । स प्रथमो मित्रो वरुणो अग्निः ।
स प्रथमो बृहस्पतिश्चिकित्वान् । तस्मा इन्द्रा य सुतमा जुहोमि स्वाहा ॥
इत्यध्वर्युः । तस्मै सूर्याय सुतमा जुहोमि स्वाहा इति प्रतिप्रस्थाता ७
सानुवषट्कारावेके शुक्रामन्थिनौ समामनन्ति । अननुवषट्कारावेके ।
अन्यतरँ सानुवषट्कारमेके ८
अनुवषट्कृते मध्यतःकारिणां
चमसाञ्जुह्वत्य-पयच्छन्तीतरान् ९
उत्तरतःपुरस्तादङ्गारान्निर्वर्त्य
प्रतिप्रस्थाता मन्थिनः सँ स्रावं जुहोति एष ते रुद्र भागो यं
निरयाचथास्तं जुषस्व स्वाहा इति १०
सूदवच्छुक्रपात्रमायतने सादयित्वा
सम्प्रेष्यति प्रैतु होतुश्रमसः प्र ब्रह्मणः प्रोद्गातुः प्र
यजमानस्य इति ११
एते मध्यतः कारिणां चमसा भवन्ति १२
२५