२४

अग्रेण हविर्धाने ग्रहौ सन्धत्तोऽरत्नी वा ब्रह्म सन्धत्तं तन्मे जिन्वतम् । क्षत्रँ सन्धत्तं तन्मे जिन्वतम् । इषँ सन्धत्तं तां मे जिन्वतम् । ऊर्ज ँसन्धत्तं तां मे जिन्वतम् । रयिँ सन्धत्तं तां मे जिन्वतम् । पुष्टि ँसन्धत्तं तां मे जिन्वतम् । प्रजाँ सन्धत्तं तां मे जिन्वतम् । पशून् सन्धत्तं तान् मे जिन्वतम् इति १
उत्तरवेद्यां ग्रहौ सादयित्वा अनाधृष्टासि इत्यङ्गुष्ठाभ्यामुत्तरवेदिमाग्रमेते २ व्यपरिफन्तावि-वोत्तरवेदिं विपरिक्रामतः ३
सुवीराः प्रजाः प्रजनयन् परीहि । शुक्रः शुक्र-शोचिषा इति दक्षिणेनाध्वर्युः । सुप्रजाः प्रजाः प्रजनयन् परीहि । मन्थी मन्थिशोचिषा इत्युत्तरेण प्रतिप्रस्थाता ४
शुक्रं यजमानोऽन्वारभते इन्द्रे ण सयुजो वयँ सासह्याम पृतन्यतः इति ५
अग्रेणोत्तरवेदिं ग्रहौ सन्धत्तोऽरत्नी वा सञ्जग्मानौ दिव आ पृथिव्यायुः । सन्धत्तं तन्मे जिन्वतम् । प्राणँ सन्धत्तं तं मे जिन्वतम् । अपानँ सन्धत्तं तं मे जिन्वतम् । व्यानँ सन्धत्तं तं मे जिन्वतम् । चक्षुः सन्धत्तं तन्मे जिन्वतम् । श्रोत्रँ सन्धत्तं तन्मे जिन्वतम् । मनः सन्धत्तं तन्मे जिन्वतम् । वाचँ सन्धत्तं तां मे जिन्वतम् इति ६
अथैनावध्वर्युरभि-मन्त्रयते आयुः स्थ आयुर्मे धत्तम् । आयुर्यज्ञाय धत्तम् । आयुर्यज्ञपतये धत्तम् । प्राणः स्थः प्राणं मे धत्तम् । प्राणं यज्ञाय धत्तम् । प्राणं यज्ञपतये धत्तम् । चक्षुः स्थश्चक्षुर्मे धत्तम् । चक्षुर्यज्ञाय धत्तम् । चक्षुर्यज्ञपतये धत्तम् । श्रोत्रं स्थः श्रोत्रं मे धत्तम् । श्रोत्रं यज्ञाय धत्तम् । श्रोत्रं यज्ञपतये धत्तम् ७ २४