एवमेवोत्तराभ्यां यथादेवतं प्रचरतः १
एतावन्नाना । उत्तरेण मन्त्रेण
प्रतिनिग्राह्यं गृह्णाति । नात्राघारो भवति ।
सकृत्सकृज्जुहुतः । उत्तरेणोत्तरेणावबाधते ।
उत्तरेणोत्तरेणादित्यस्थाल्याँ सम्पातमवनयति २
अथैनामेतेनैव
पात्रेणापि-दधाति विष्णवरुक्रमैष ते सोमस्तँ रक्षस्व
तं ते दुश्चक्षा माव ख्यत् इति ३
उत्तरेणोत्तरेणाध्वर्युर्भक्षं प्रयच्छति
। तेन तेनैव होता प्रतिगृह्णाति ४
आधवनीयं पूतभृत्यवनयति ।
न्युप्याधवनीयमुन्नेता ५
सम्प्रेष्यति
उन्नीयमानेभ्योऽनुब्रूहि इति ६
होतृचमसमुख्यान्नव
चमसानुन्नयत्यन्यत्राछावाकचमसात् ७
द्रो ण-कलशादुपस्तीर्य
पूतभृत उन्नीय द्रो णकलशादेवाभिघारयति ८
तत्रैषो-ऽत्यन्तप्रदेशः ।
यत्र क्व च चमसानुन्नयेदेवमेवोन्नेतोन्नयेत् । सर्वान् सर्वा-नेवात
ऊर्ध्वं चमसानुन्नयति ९
सवनमुखीयेष्वेव चमसेषून्नीयमानसूक्तं भवति १०
परिहित उन्नीयमानसूक्ते स्तुतोऽसि जनधाः । देवास्त्वा शुक्रपाः
प्रणयन्तु इति शक्रमध्वर्युरादत्ते । स्तुतोऽसि जनधाः ।
देवास्त्वा मन्थिपाः प्रणयन्तु इति मन्थिनं प्रतिप्रस्थाता ११
सावित्रेणोभावुपरिष्टात् प्रिक्षिताभ्याँ शकला-भ्यामपिधत्तः
१२
अधस्तादप्रोक्षिताभ्यां पाँ सूनपध्वँ सयतः १३
अपनुत्तः शण्डः सहामुना
इत्यध्वर्युः । यं द्वेष्टि तस्य नाम गृह्णाति १४
अपनुत्तो मर्कः सहामुना
इति प्रतिप्रस्थाता । यं द्वेष्टि तस्य नाम गृह्णाति १५
हस्ताभ्यामपिधाय
प्राञ्चावुपनिष्क्रामतः उर्वन्तरिक्षं वीहि इति १६
२३