२२

ततो द्विदेवत्यैश्चरतः १
वायव इन्द्र वायुभ्यामनुब्रूहि इति सम्प्रेष्यति २ आदित्यपात्रेण प्रतिप्रस्थातैन्द्र वायवस्यैकदेशं गृह्णाति उपयामगृहीतोऽसि वाक्षसदसि वाक्पाभ्यां त्वा क्रतुपाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि इति ३
द्रो णकलशाद् गृह्यन्तेऽसन्ना हूयन्ते इत्येकेषां प्रतिनिग्राह्याणां वदति ४ ऐन्द्र वायवमादायाध्वर्युद्रो र्ण!कलशात् परिप्लवया राजानमादायाघारमा-घारयति यत्रोपाँ शुः अध्वरो यज्ञोऽयमस्तु देवा ओषधीभ्यः इति ५
तत्रैषोऽत्यन्तप्रदेशः । मध्येऽग्नेराज्याहुतीः पश्वाहुतीः पुरोडाशाहुतीश्च जुहोति । आद्यन्तयोराधारस्य सोमाहुतीः ६
यतो मन्येतानभिक्रम्य होष्यामीति तत्तिष्ठन्नाश्रावयेत् ७
अत्याक्रम्याश्राव्याह वायव इन्द्र वायुभ्यां प्रेष्य इति ८
वषट्कृते जुहोति ९
पुनर्वषट्कृते जुहुतः १० हुतमनुमन्त्रयते भूरसि श्रेष्ठो रश्मीनां प्राणपाः प्राणं मे पाहि धूरसि श्रेष्ठो रश्मीनामपानपा अपानं मे पाहि इति ११ यद्येनं पूर्वः सन् भ्रातृव्योऽभिष्यादङ्गुल्याङ्गुष्ठमुपनिगृह्णीयात् यद्यपरोऽङ्गुष्ठेनाङ्गुलिं यो न इन्द्र वायू अभिदासति इति १२ अध्वर्युपात्रे प्रतिप्रस्थाता सँ स्रावमानयति । अध्वर्युः प्रतिप्रस्थातुः पात्रे । प्रतिप्रस्था-तादित्यस्थाल्यां देवेभ्यस्त्वा इति १३
होत्रेऽध्वर्युर्भक्षं प्रयच्छति मयि वसुः पुरोवसुर्वाक्या वाचं मे पाहि इति १४
एतेनैव होता प्रतिगृह्णाति १५
२२