ततो द्विदेवत्यैश्चरतः १
वायव इन्द्र वायुभ्यामनुब्रूहि इति सम्प्रेष्यति २
आदित्यपात्रेण प्रतिप्रस्थातैन्द्र वायवस्यैकदेशं गृह्णाति
उपयामगृहीतोऽसि वाक्षसदसि वाक्पाभ्यां त्वा
क्रतुपाभ्यामस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि इति ३
द्रो
णकलशाद् गृह्यन्तेऽसन्ना हूयन्ते इत्येकेषां प्रतिनिग्राह्याणां वदति ४
ऐन्द्र वायवमादायाध्वर्युद्रो र्ण!कलशात् परिप्लवया
राजानमादायाघारमा-घारयति यत्रोपाँ शुः
अध्वरो यज्ञोऽयमस्तु देवा ओषधीभ्यः इति ५
तत्रैषोऽत्यन्तप्रदेशः ।
मध्येऽग्नेराज्याहुतीः पश्वाहुतीः पुरोडाशाहुतीश्च जुहोति ।
आद्यन्तयोराधारस्य सोमाहुतीः ६
यतो मन्येतानभिक्रम्य होष्यामीति
तत्तिष्ठन्नाश्रावयेत् ७
अत्याक्रम्याश्राव्याह वायव इन्द्र वायुभ्यां
प्रेष्य इति ८
वषट्कृते जुहोति ९
पुनर्वषट्कृते जुहुतः १०
हुतमनुमन्त्रयते भूरसि श्रेष्ठो रश्मीनां प्राणपाः
प्राणं मे पाहि धूरसि श्रेष्ठो रश्मीनामपानपा अपानं मे पाहि इति ११
यद्येनं पूर्वः सन्
भ्रातृव्योऽभिष्यादङ्गुल्याङ्गुष्ठमुपनिगृह्णीयात्
यद्यपरोऽङ्गुष्ठेनाङ्गुलिं यो न इन्द्र वायू अभिदासति इति १२
अध्वर्युपात्रे प्रतिप्रस्थाता सँ स्रावमानयति
। अध्वर्युः प्रतिप्रस्थातुः पात्रे । प्रतिप्रस्था-तादित्यस्थाल्यां
देवेभ्यस्त्वा इति १३
होत्रेऽध्वर्युर्भक्षं प्रयच्छति मयि
वसुः पुरोवसुर्वाक्या वाचं मे पाहि इति १४
एतेनैव होता
प्रतिगृह्णाति १५
२२