वायुरन्तरिक्षात् इति वायुम् १
अग्निः पृथिव्याः इत्यग्निम् २
यमः पितृभ्यः
इति यमम् ३
सरस्वती मनुष्येभ्यः इति सरस्वतीम् ४
देवी द्वारौ मा मा सं
ताप्तम् इति सदसो द्वारौ ५
नमः सदसे इति सदः ६
नमः सदसस्पतये इति
यजमानम् ७
नमः सखीनां पुरोगाणां चक्षुषे इत्यृत्विजः ८
नमो दिवे इति दिवम्
९
नमः पृथिव्यै इति पृथिवीम् १०
प्रविश्य यत्रोपवेक्ष्यन् भवति
तदुपतिष्ठते अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद
योऽस्मत्पाकतरः इति ११
अग्रेण प्रशास्त्रीयमतिक्रम्योपविशति उन्निवत
उदुद्वतश्च गेषम् इति १२
द्यावापृथिवी समीक्षते पातं मा द्यावापृथिवी
अद्याह्नः इति १३
सदसो दक्षिणार्धं परेक्षेत आगन्त पितरः पितृमानहं
युष्माभिर्भूयासँ सुप्रजसो मया यूयं भूयास्त इति १४
सवनीयानासाद्य सम्प्रेष्यति प्रातः प्रातःसावस्येन्द्रा य
पुरो-डाशानामनुब्रूहि इति १५
जुह्वामुपस्तीर्य सर्वेषाँ हविषाँ
समवद्यति १६
आमिक्षाया अवदाय वाजिनस्यावद्यति । न वा वाजिनस्य १७
अवदाया-भिघार्यात्याक्रम्याश्राव्याह प्रातः प्रातःसावस्येन्द्रा य
पुरोडाशान् प्रस्थितान् प्रेष्य इति १८
सम्प्रेष्यति
अग्नयेऽनुब्रूहि ॥ अग्नये प्रेष्य इति
स्विष्टकृतः १९
अत्रैवेडां निरवद्येदित्येकम् ।
उपरितरामित्यपरम् २०
२१