श्रोत्राय मे इत्याश्विनम् १
आत्मने मे इत्याग्रयणम् २
अङ्गेभ्यो मे
इत्युक्थ्यम् ३
आयुषे मे इति ध्रुवम् ४
तेजसे मे ॥ ओजसे मे ॥
वर्चसे मे इत्यतिग्राह्यान् ५
वीर्याय मे इति षोडशिपात्रं यदि षोडशी भवति ६
विष्णोर्जठरमसि इति द्रो णकलशम् ७
इन्द्र स्य जठरमसि इत्याधवनीयम् ८
विश्वेषां देवानां जठरमसि इति पूतभृतम् ९
सर्व ँ!
राजानमुपतिष्ठन्ते कोऽसि को नाम इति प्रतिपद्य तस्य त
इदमुन्मृजे इत्यन्तेन १०
बुभूषन्नवेक्षेत
ब्रह्मवर्चसकामो-ऽवेक्षेतामयाव्यवेक्षेताभिचरन्नवेक्षेतेति
विज्ञायते ११
तत इतराणि द्र व्याण्यु-पतिष्ठन्ते १२
उत्करे वेदिकरणानि
स्फ्यः स्वस्तिर्विघनः स्वस्तिः इत्येतै-र्मन्त्रैर्यथारूपम् १३
यज्ञिया यज्ञकृत स्थ ते मास्मिन् यज्ञ उपह्वयध्वम् इति च सर्वाणि १४
उप
मा द्यावापृथिवी ह्वयेताम् इति द्यावापृथिवी १५
उपास्तावः इत्यास्तावम्
१६
कलशः इति द्रो णकलशम् १७
सोमः इति सोमम् १८
अग्निः इत्याहवनीयम् १९
उप
देवा उप यज्ञः इति यज्ञम् २०
उप मा होत्रा उपहवे ह्वयन्ताम् इति
होत्रकान् २१
ह्वयतां ह्वयेतां ह्वयन्ताम् इत्यनुषङ्गान् २२
नमोऽग्नये मखघ्ने इत्याहवनीयम् २३
नमो रुद्रा य मखघ्ने इत्याग्नीध्रीयम्
२४
नम इन्द्रा य मखघ्ने इति होत्रीयम् २५
दृढे स्थः शिथिरे समीची माँ
हसस्पातम् इति द्यावापृथिवी २६
सूर्यो मा देवो दिव्यादँ हसस्पातु
इत्यादित्यम् २७
२०