१९

मन्थं चैव पुरोडाशं च संयौति १
धाना ओप्य पुरोडाशमधिश्रयति २
एवमेव धाना उद्वास्य पुरोडाशमुद्वासयति ३
आग्नीध्र एवानुपृष्ठ्यं बर्हिः स्तृणाति ४
पुरोडाशानलङ्करोति ५
तत आश्विनं द्रो णकलशात् परिप्लवया गृह्णाति या वां कशा मधुमती इत्येतेनानुवाकेनोत्तरेण वा ६ द्रो णकलशादेवात ऊर्ध्वं परिप्लवया ग्रहान् गृह्णात्यन्यत्र धाराग्रहेभ्यः ७
आश्विनं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं पशुँ सवनीयपशुमुपाकरोत्यग्निष्टोमे । ऐन्द्रा ग्नमुक्थ्ये द्वितीयम् । ऐन्द्रं वृष्णि ँषोडशिनि तृतीयम् । सारस्वतीं मेषीमतिरात्रे चतुर्थीम् ८
वेदिसम्मितां वैकादशिनीं मिनोति ९
समानमा वपाया होमात् १०
हुतायां वपायां प्रस्रप्स्यन्तो ग्रहानवेक्षन्ते ११
द्वौ समुद्रौ विततावजूर्यौ इति द्रो ण-कलशाधवनीयौ १२
द्वे द्र धसी इति पूतभृतम् १३
सर्व ँराजानमुपतिष्ठन्ते परिभूरग्निं परिभूरिन्द्र म् इति प्रतिपद्य तस्य त इदमुन्मृजे इत्यन्तेन १४
प्राणाय मे इत्युपाँ शुपात्रम् १५
अपानाय मे इत्यन्तर्यामम् १६
व्यानाय मे इत्युपांशु-सवनम् १७
वाचे मे इत्यैन्द्र वायवम् १८ दक्षक्रतुभ्यां मे इति मैत्रावरुणम् १९
चक्षुर्भ्यां मे इति शक्रामन्थिनौ २०
१९