१८

ततः सवनीयान्निर्वपतीन्द्रा य हरिवते धाना इन्द्रा य पूषण्वते करम्भँ सरस्वत्यै भारत्यै परिवापमिन्द्रा य पुरोडाशमष्टाकपालं प्रातःसवन एकादशकपालं माध्यन्दिने सवने द्वादशकपालं तृतीयसवने । अपि वा सर्वत्रैकादशकपालम् १
मन्थं करम्भ इत्याचक्षते । लाजान् परिवाप इति २
समानमावपनात् ३
यवानोप्य लाजार्थं कपालमुपधाय तस्मिन्नर्धं व्रीहीणां यजुरुत्पूताभिरद्भिः संयुत्यावपति ४
आवपन्नधिश्रयणमन्त्रं जपत्युद्वपन्नुद्वासनमन्त्रम् ५ भ्राष्ट्रान् लाजानभिघार्योद्वासयति ६
काल एवालङ्करोति ७ समानमावहननात् ८
यवानवहत्य पाणिभ्यां लाजान् वितुषान् करोति ९
तत्रावपनमन्त्रोऽवहननमन्त्र उद्वपनमन्त्रो निष्पवनमन्त्र इति क्रियन्ते १०
पाण्योरुलूखलमुसलमन्त्राः क्रियेरन् ११
ततः पुरोडाशीयानवहन्ति १२
यत् प्रागधिवपनात् तत्कृत्वा करम्भार्यं कपालमुपधाय यवतण्डुलानामर्धं करम्भार्थं कपाल आवपति १३
व्याख्यातः सँ स्कारः १४
पिष्टानामावृता धानाः पि ँषन्ति १५
समानमा कपालोपधानात् १६
धानार्थं कपालमुपधाय पुरोडाशकपालान्युपदधाति १७
आमिक्षां करोति १८
नानापात्रेषु हवी ँषि संवपति । उत्पुनाति १९
१८