दक्षिणेन चात्वालमुपविशन्ति १
अग्रेण प्रस्तोतारमुपविश्याध्वर्युः
प्रस्तोत्रे बर्हिर्मुष्टिं प्रयच्छन् स्तोत्रमुपाकरोति
वायुर्हिङ्कर्ता इति प्रतिपद्य ते देवाः प्राणभृतः प्राणं मयि दधतु ॥ सोमः
पवते इत्यन्तेन २
एतेनैव सर्वाणि स्तोत्रा-ण्युपाकरोति ३
उपावर्तध्वम्
इत्यन्यत्र पवमानेभ्योऽनन्तरं करोति ४
चात्वा-लमवेक्षमाणाः
स्तुवते ५
स्तोत्रँ स्तूयमानं चत्वार ऋत्विज उपगायन्ति ।
दिग्भ्य उपगायन्ति ६
यजमानपञ्चमा ऋत्विज उपगायन्ति ७
नाध्वर्युरुप-गायेदिति विज्ञायते ८
ओ इत्यन्य ऋत्विज
उपगायन्ति । हो इति यजमानः ९
स्तूयमानं यजमानोऽन्वारोहं जपति श्येनोऽसि
गायत्रछन्दाः इति १०
स्तुतमनुमन्त्रयते स्तुतस्य स्तुतमसि इति ११
एतेनैव
सर्वाणि स्तोत्रा-ण्यनुमन्त्रयते १२
स्तुत उत्तिष्ठन्नाह
अग्नीदग्नीन् विहर बर्हिः स्तृणाहि पुरोडाशाँ
अलङ्कुरु प्रतिप्रस्थातः पशुनेहि इति १३
प्रत्येत्य राजानं यजमान
उपतिष्ठते विष्णो त्वं नो अन्तमः इति १४
आग्नीध्रादङ्गारानाहृत्य
यथान्युप्तमाग्नीध्रो धिष्णियान् विहरति १५
पुरस्तात्प्रत्यङ्ङासीनः प्रतिप्रस्थाता
धिष्णियान् व्याघारयति १६
द्रो णकलशात् परिप्लवया
राजानमादायाहवनीयमाग्नीध्रीयँ होत्रीयम्
। पञ्चगृहीतेनाज्येनेतरान् । सोमेन मार्जालीयम् १७
य एव निवपनमन्त्रास्ते
व्याघारणाः १८
सवनीयानां पात्राणि प्रक्षाल्य प्रयुनक्ति
या-न्यौषधकारितानि भवन्ति १९
पवित्रे कृत्वा
सम्प्रेष्यति यजमान वाचं यच्छ इति २०
वाग्यतः पात्राणि सम्मृशति २१
१७