ततस्त्रीनतिग्राह्यान् गृह्णाति अग्न आयूँ षि पवसे इत्येतैस्त्रिभिरनुवाकैः
१
तत उक्थ्यम् उपयामगृहीतोऽसीन्द्रा य त्वा बृहद्वते वयस्वते इति २
ततो
ध्रुवं मूर्धानं दिवो अरतिं पृथिव्याः इति ३
यं कामयेत
सर्वमायुरियादिति तस्य पूर्णं ग्रहं गृह्णीयात् ४
हिरण्येऽधि सादयेदायुष्कामस्य ५
राजपुत्रो ध्रुवं गोपायतीति विज्ञायते ६
ध्रुवे गृहीते यजमानो न प्रस्रावयत्यावनयनात् ७
द्रो णकलशे
राजानमतिपावयति यावन्तं प्रातःसवनायाप्तं
मन्यते ८
प्रपीड्य पवित्रं पूतभृति वितत्य मैत्रावरुणचमसीया
एकधनासु व्यानयति ९
यथार्थमेकधनानामाधवनीयेऽवनीयाधवनीयात्
पूतृभृत्येकदेशँ राज्ञोऽवनयति १०
तत्रैषोऽत्यन्तप्रदेशः ।
यत्र क्व च किं च पूतभृत्यवनयेत् तिरः पवित्र-मेवावनयेदन्यत्र द्रो
णकलशात् ११
पवमानग्रहान् गृह्णाति । उपयामगृहीतो-ऽसि प्रजापतये त्वा
इति द्रो णकलशमभिमृशेत् । इन्द्रा य त्वा इत्याधवनीयम् ।
विश्वेभ्यस्त्वा देवेभ्यः इति पूतभृतम् १२
पुरस्तादुपयामा यजुषा गृह्यन्त उपरिष्टादुपयामा ऋचा
यज्ञस्य धृत्या इति विज्ञायते १३
वैप्रुषान् होमान् जुह्वति
यस्ते द्र प्स स्कन्दति इत्येताभिस्तिसृभिः १४
सप्तहोतारं च हुत्वोदञ्चः
प्रह्वा बहिष्पवमानाय प्रसर्पन्ति १५
अध्वर्युं प्रस्तोतान्वारभते
प्रस्तोतारमुद्गातो-द्गातारं प्रतिहर्ता प्रतिहर्तारं
ब्रह्मा ब्रह्माणं यजमानः । यजमानं ब्रह्मेत्येकेषाम् १६
बर्हिर्मुष्टिं धून्वन्नध्वर्युः प्रथमँ सर्पति गायत्रः पन्था वसवो
देवता वृकेणापरिपरेण पथा स्वस्ति वसूनशीय इति वागग्रेगा अग्र एतु इति च १७
१६