१५

मैत्रावरुणं गृह्णाति अयं वां मित्रावरुणा इति १
अथैनँ शृतशीतेन पयसा श्रीणाति

राया वयँ ससृवाँ सो मदेम हव्येन देवा यवसेन गावः ।

तां धेनुं मित्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीम् ॥

इति २
अतीत्याश्विनँ शुक्रं गृह्णाति अयं वेनश्चोदयत् पृश्निगर्भाः इति ३ अथैनँ हिरण्येन श्रीणाति शुक्रं ते शुक्रेण श्रीणामि इति ४
ततो मन्थिनं तं प्रत्नथा पूर्वथा इति ५
अथैनँ सक्तुभिः श्रीणाति

मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्र वन्ता ।

आ यः शर्याभिस्तुविनृम्णो अस्याः श्रीणीतादिमं गभस्तात् ॥

इत्यनभिध्वँ सयन्नात्मानँ चेतराँ श्च ग्रहान् ६
तत आग्रयणं द्वयोर्धारयोर्गृह्णाति ७
य एष आग्रयणस्थाल्याँ राजा तमन्यस्मिन् पात्रे पर्यासिच्य द्वितीयां धारां कुरुते ये देवा दिव्येकादश स्थ इति ८
रुग्णवत्यर्चा भ्रातृव्यवतो गृह्णीयात् त्रि ँशत्त्रयश्च गणिनो रुजन्तः इति ९
आग्रयणं गृहीत्वा त्रिर्हिङ्कृत्वा वाचं विसृजते सोमः पवते सोमः पवते सोमः पवतेऽस्मै ब्रह्मणे पवतेऽस्मै क्षत्राय पवतेऽस्मै विशे पवतेऽस्मै सुन्वते यजमानाय पवत इषे पवत ऊर्जे पवतेऽद्भ्यः पवत ओषधीभ्यः पवते वनस्पतिभ्यः पवते द्यावापृथिवीभ्यां पवते सुभूताय पवते ब्रह्मवर्चसाय पवते यजमानाय पवते मह्यं ज्यैष्ठ्याय पवते इति १० शनैरभिव्याहरत्यथोच्चैरथ सूच्चैरिति विज्ञायते ११
१५