तिरः पवित्रँ स्रवन्त्या धाराया ग्रहान् गृह्णाति १
यदि रथन्तरसामा सोमः
स्यादैन्द्र वायवाग्रान् गृह्णीयात् । यदि बृहत्सामा शुक्राग्रान् ।
यदि जगत्सा-माग्रयणाग्रान् । उभयसामैन्द्र वायवाग्रान् गृह्णीयात् २
ऐन्द्र वायवाग्रान् गृह्णीयादामयाविन इति काम्यानि ग्रहाग्राणि
ब्राह्मणव्याख्यातानि भवन्ति । ऐन्द्र वायवाग्रानित्येव भवन्ति ३
यद्यन्यमैन्द्र वायवात् काम्यं पूर्वं ग्रहं
गृह्णीया-द्धारयेदेवमैन्द्र वायवस्य
सादनात् ४
अथैनमैन्द्र वायवँ सादयित्वा सादयेत् ५
यान्
प्राचीनमाग्रयणाद् ग्रहान् गृह्णीयात्तानुपाँ शु
गृह्णीयात् । यानूर्ध्वा ँस्तानुपब्दिमत इति ६
आग्रयणाग्रान्
गृह्णन् मन्थिनमेव गृहीत्वा वाचं विसृजेत । उक्थ्याग्रान्
गृह्णन्नुपाँ शूक्थ्यं गृह्णीयात् ७
ऐन्द्र वायवं गृह्णाति आ वायो
भूष शुचिपाः इति प्रतिपद्य उपयामगृहीतोऽसि वायवे त्वा इत्यन्तेन ८
अपयम्य पात्रं पुनरेव गृह्णाति इन्द्र वायू इमे सुताः इति प्रतिपद्य
उपयामगृहीतोऽसीन्द्र -वायुभ्यां त्वा इत्यन्तेन ९
अथैनं पवित्रेण
परिमृज्यायतने सादयति एष ते योनिः सजोषाभ्यां त्वा इति १०
एवमेवेतरान् ग्रहान् यथादेवतं गृहीत्वा यथायतनँ स्वेन स्वेन सादनेन
सादयति ११
यर्ह्यनाम्नातँ सादनँ स्यात् एष ते योनिः इत्येवैनँ
सादयेत् १२
१४