ततो ग्राव्ण आदायाध्वर्यवो महाभिषवायोपविशन्ति ।
पुरस्तादाध्वर्युर्दक्षिणतः
प्रतिप्रस्थाता पश्चान्नेष्टोत्तरत उन्नेता १
अधिषवणचर्मणि भूयिष्ठँ राजानं
निवपति । अल्पीयाँ सं माध्यन्दिनाय सवनायावशिनष्टि २
वसतीवरीभिरुपसृज्य
निग्राभमुपेत्यापरिमितमभिषुण्वन्ति ३
निग्राभमुपयन्ति ।
अभिषुण्वन्ति । निग्राभमुपयन्ति । अभिषुण्वन्ति ४
त्रिरभिषुतँ राजानं चमसे सँ सिच्या-धवनीय आनयति ५
एवंविहितावपरौ भवतः ६
उत्तमेऽभिषवे प्रपीड्यर्जीषम्
७
सुसम्भृतँ राजानं कुर्वन्ति ८
पवित्रेण निर्मृज्य प्रपीडयति ९
अधिषवण-चर्मणि सम्मुखान् ग्राव्णः कृत्वा ग्रावभ्य ऋजीषं
व्यपोहति । ऋजीषमुखान् करोति १०
प्राञ्चमुद्गातारो द्रो णकलशं
ग्रावस्वध्यूहन्ति ११
समयाक्षं प्रकर्षन्ति १२
द्रो
णकलश उदीचीनदशं पवित्रं वितन्वन्ति १३
पवित्रं ते विततं ब्रह्मणस्पते
प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते
शृतास इद्वहन्तस्तत्समाशत इति राजानमभिमन्त्र्य
होतृचमसाद्यजमानः पवित्रे सन्ततां धाराँ
स्रावयति । यं द्विष्यात्तस्य विच्छिन्द्यात् १४
१२