११

अन्याभ्यामन्याभ्यामँ शुभ्यां प्रतिप्रस्थाता पात्रमपिदधाति १
असादयित्वा ग्रहमादायाध्वर्युरुत्तिष्ठति स्वाङ्कृतोऽसि मधुमतीर्न इषस्कृधि इति २ उत्तरेण होतारँ हरति उर्वन्तरिक्षमन्विहि इति ३
मनस्त्वाष्टु इत्युत्तरं परिधि-सन्धिमन्ववतिष्ठतः ४
ऋजुस्तिष्ठन् दक्षिणाप्राञ्चँ सन्ततं जुहोति स्वाहा त्वा सुभवः सूर्याय इति ५
देवेभ्यस्त्वा मरीचिपेभ्यः इति हुत्वा परिधौ लेपं निमार्ष्टि ६
यदि कामयेत वर्षुकः पर्जन्यः स्यादिति नीचा हस्तेन निमृज्यात् ७
यदि कामयेतावर्षुकः स्यादित्युत्तानेन निमृज्यात् ८
आग्रयणस्थाल्याँ सम्पातमवनीयायतने पात्रँ सादयति एष ते योनिः प्राणाय त्वा इति ९
अनभिषुतानामँ शूनामेकमादायाध्वर्युरुपाँ शुपात्रेऽपास्यति । स आ तृतीय-सवनात् परिशेरे १०
ततो ँऽशुष्वँ शूनपिसृजति यत्ते सोमादाभ्यं नाम जागृवि इति । द्वौद्वावनुसवनं वा ११
यद्यभिचरेत् अमुष्य त्वा प्राणे सादयामि इत्युपाँ शु गृहीत्वा सादयेत् १२
अथैनँ सावित्रेणादाय हरति १३ समानमा होमात् १४
होष्यन्नभिमन्त्रयते अमुं जह्यथ त्वा होष्यामि इति १५
यदि दूरे स्यादा तमितोस्तिष्ठेत् १६
समन्य जुहोति प्रहर्षिणो मदिरस्य मदे मृषासावस्तु स्वाहा इति १७
समानमितरत् १८
११