१०

श्वात्रा स्थ वृत्रतुरः इत्याप्याय्याभिमन्त्रयते यत्ते सोम दिवि ज्योतिः इति १
अधिषवणफलके अभिमन्त्रयते धिषणे वीडू सती वीडयेथाम् इति २ उपरिष्टाद् ग्रावा भवत्यधस्तादँ शवः ३
अथ होतृचमसे प्रदक्षिणं परिप्लाव-यन्निग्राभमुपैति प्रागपागुदगधराक्तास्त्वा दिश आधावन्त्वम्ब नि ष्वर इति ४
षडँ शूनुपयच्छति । आद्रा रःसन्तोऽसँ श्लिष्टा भवन्ति ५
मा भेर्मा सं विक्थाः इति ग्रावाणमुद्यम्य वदन्ति ६
यत्र तृणं मूलं वा पश्यति तत्प्रत्यभिषुणोति अनागसस्त्वा वयमिन्द्रे ण प्रेषिता उप वायुष्टे अस्त्वँ शभूर्मित्रस्ते अस्त्वँ श-भूर्वरुणस्ते अस्त्वँ शभूरहतः सोमो राजा मया इति ७
एतयैवात ऊर्ध्वम-भिषुणुयात् ८ अष्टौकृत्वोऽग्रेऽभिषुत्य पुनरेव निग्राभमुपैति ९ द्विरादितोऽन्ततो वा । चतुर्निग्राभमुपैति १० त्रिरुदचनेन सम्भृत्योदञ्चतीति विज्ञायते ११
अपात्तानामँ शूनां द्वाभ्यां प्रतिप्रस्थातोपाँ शुपात्रमपिधायोत्तरत उपयच्छति १२
अञ्जलिना राजानमादायाध्वर्युरुपाँ शुपात्रं नयति वाचस्पतये पवस्व वाजिन् इति १३
एवंविहितावपरौ द्वावभिषवौ भवतः १४
अपि वैकादशकृत्वो द्वितीयमभिषुणुयाद् द्वादशकृत्वस्तृतीयम् १५
१०