अथैनमनवानँ सकृदभिषुत्य तिरः पवित्रमच्छिन्नां धाराँ
स्रावयन्नदाभ्य-पात्रेणानवानँ
सकृद् गृह्णाति १
वामदेव्यं मनसा गायमानो गृह्णातीति विज्ञायते २
वामदेव्यस्यर्चा गृह्णीयादित्येकेषां कया नश्चित्र आ भुवत्
इत्येतया ३
प्राणता ग्राह्योऽपानता ग्राह्यः प्राण्यापान्य व्यनता
गृहीतव्य इति विज्ञायते ४
गृहीत्वा शतमानँ हिरण्यमभिव्यनिति आ नः प्राण
एतु परावतः इति ५
हिरण्येन ग्रहमपिधायाप उपस्पृशति इन्द्रा ग्नी मे
वर्चः कृणुताम् इति ६
अथैनमनवानँ सकृज्जुहोति दधन्वे वा यदीम् इति
७
यद्यनवानं न शक्नुयाद्धोतुं गृहीतुं वा वरे दत्ते जुहुयात् ८
हुत्वा
सदसि शेषं भक्षयति यथा पुरस्तात् ९
द्वादश पष्ठौहीर्दक्षिणा ददाति
कृत्त्यधीवासं च १०
तत उपाँ शुसवनं ग्रावाणमादत्ते देवस्य त्वा
सवितुः प्रसवे इति प्रतिपद्य वृष्टिवनिम् इत्यन्तेन ११
तमादाय
वाचं यच्छत्याग्रयणात् १२
अथैनदूर्ध्वसानुँ सहिरण्येन पाणिना
राज्ञोऽभिमि-मीते इन्द्रा य त्वा वृत्रघ्ने
इत्येतैर्मन्त्रैः १३
तत्र स एव मानकल्पो यः
क्रयेऽन्यत्रोप-समूहनात् १४
तत उपाँ शुं गृह्णाति
१५
अधिषवणचर्मणि राजानं निवपति यावन्तमेकग्रहायाप्तं मन्यते १६
९