सर्वान् सोमान् सहिरण्येन पाणिना गृह्णाति च जुहोति च १
सर्वाः सोमाहुतीः
प्राङ्मुखो जुहोति २
हुत्वा सदसि शेषं भक्षयति ३
मार्जालीये पात्रं
प्रक्षालयति ४
सदस्येवात ऊर्ध्व ँसोमभक्षान् भक्षयन्ति ।
आग्नीध्रे हविर्भक्षान् ५
मार्जालीय उच्छिष्टपात्राणि
प्रक्षालयति ६
ततोऽदाभ्यं गृह्णाति ७
उपनद्धस्य
राज्ञस्त्रीनँ शून् प्रवृहति वसवस्त्वा प्र
वृहन्तु गायत्रेण छन्दसा इत्येतैर्मन्त्रैः ८
निग्राभ्याणां
दध्नः पयसो वा चमसे निःषिच्याँ शूनाधूनोति मान्दासु ते शुक्र
शुक्रमा धूनोमि इत्येतैर्मन्त्रैः ९
त्रिभिराधूनोतीत्येकेषाम् ।
पञ्चभिरित्येकेषाम् । सप्तभिरित्येकेषाम् १०
अथैनं दधिग्रहपात्रेण
गृह्णाति शुक्रं ते शुक्रेण गृह्णामि ॥ अग्निः प्रातःसवने
पात्वस्मान् इति चैताभिस्तिसृभिः ११
हरति
आस्मिन्नुग्रा अचुच्यवः इति १२
जुहोति सोमः सोमस्य
पुरोगाः इति १३
ततो ँऽशुष्वँ शूनपिसृजति उशिक् त्वं देव सोम
गायत्रेण छन्दसा इत्येतैः प्रतिमन्त्रम् १४
अनुसवनमपिसृजेदित्येकम् ।
तदानीमेवैकैकमपिसृजेदित्यपरम् १५
द्वादश पष्ठौहीर्दक्षिणा ददाति कृत्त्यधीवासं च १६
ततो ँऽशुं
गृह्णाति १७
अधिषवणचर्मणि राजानं निवपति यावन्तमेकग्रहायाप्तं मन्यते १८
८